6-1-143 कुस्तुम्बुरूणि जातिः संहितायाम् सुट्
index: 6.1.143 sutra: कुस्तुम्बुरूणि जातिः
कुस्तुम्बुरूणि इति सुट् निपात्यते जातिश्चेद् भवति। कुस्तुम्बुरुर्नामौषधिजातिः धान्यकम्। तत्फलान्यपि कुसुम्बुरुणि सूत्रनिर्देशे नपुंसकमविवक्षितम्। जातिः इति किम्? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि। तुम्बुरुशब्देन तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा।
index: 6.1.143 sutra: कुस्तुम्बुरूणि जातिः
अत्र सुण्निपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥
index: 6.1.143 sutra: कुस्तुम्बुरूणि जातिः
कुस्तुम्बुरूणि जातिः - अथ 'सुट् कात्पूर्वः' इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते-कुस्तुम्बुरूणि । अत्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः । क्लीबत्वमतन्त्रमिति । अविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरूणीति । धान्याकजातिवाचकत्वाऽभावान्न सुडिति भावः । तदाह — कुत्सितानि तिन्दुकीफलानीत्यर्थ इति तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः ।
index: 6.1.143 sutra: कुस्तुम्बुरूणि जातिः
अपरस्परा इति। अपरे च परे चेति द्वन्द्वः, निपा तनादल्पाच्तरस्य परनिपातः। सार्था गच्छन्तीति। सार्थभूता गच्छन्तीत्यर्थः। सततमविच्छेदेनेति। न कदाचिदस्मिन् महापथे गमनं विच्छिद्यत इत्यर्थः। अयं चार्थः सुटा द्योत्यते। किमिदमिति। ठस्मादेव निपातनान् मलोपःऽ इत्युच्यमाने सततमिति न सिद्धयति, सूत्रे'प्यञन्तोच्चारणादिति प्रश्नः। कथमिति मलोपस्य लक्षणं न दृश्यते। अथ'सातत्ये' इत्येतदेव निपातनं सामान्येन ततशब्दे परतः समो मकारस्य लोपो भवतीत्यस्यार्थस्य ज्ञापकं कल्प्यते, सन्ततमिति न सिद्ध्येत्, बाधकत्वान्निपातनानामिति मन्यमानस्य प्रश्नः। समस्तते विकल्पेनेति। अयमभिप्रायः - सातत्यशब्दं पूर्वाचार्यलक्षणसिद्धमुच्चारयता पूर्वाचार्यलक्षणमाश्रितम्, अतस्तेन समो मकारस्य लोपो विधीयत इति एवञ्च कृत्वावश्यंप्रभृतीनामपि कृत्यादिषु मकारलोपः सिद्धो भवति, तदेव पूर्वाचार्यलक्षणं पठन्ति -लुम्पेदित्यादि। अन्त्यमिति शेषः। कृत्यप्रत्ययान्ते परतो' वश्यंशब्दस्यान्त्यं लुम्पेत्, लोपमस्य कुर्यादित्यर्थः।'शे मुचादीनाम्' इति नुम्। अवश्यकार्यमित्युदाहरणम्। तुमिति वृतभङ्गभयात्षष्ठी न कृता। तुम्प्रत्ययान्तस्यान्त्यं लुम्पेत्, काममनसोः शब्दयोः परतः -कर्तु कामोऽस्य कर्तुकामः, कर्तुं मनोऽस्य कर्तुमनाः, तुमप्यत्रोपसंख्यायते, अक्रियोपपदत्वादित्याहुः। संशब्दस्यान्त्यं लुम्पेत्, वाउविकल्पेन, हिततयोः शब्दयोः परतः -सहितम्, संहितम्, सततम्, संततम्। नगिसमासः। मांसशब्दस्याप्यन्त्यं लुम्पेत्, क्व? पचि, पचतिधातौ। किंविशिष्टे ? युड्घञोः, युटि घञि च परतो यः पचिस्तस्मिन्नित्यर्थः, मास्पचनम्, मास्पाकः, कर्मणि षष्ठयाः समासः। संहितायां समासे चैष मलोप इत्याहुः। अथ सन्ततशब्दात् प्यञ् भवति वा न वा सान्तत्यमिति, तेत्याहुः ॥ गोष्पदं सेवितासेवितप्रमाणेषु ॥ गावः पद्यन्तेऽस्मिन्निति।'पुंसि संज्ञायाम्' इत्यधिकरणे घः, कर्तरि षष्ठ।ल समासः। अगोष्पदान्यरण्यानीति। ननु च सूत्रे गोष्पदशब्द उपातः, तत् किमिदम्? इत्यत आह -असेवित इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति, तस्मादसेविते गोष्पदशब्दार्थनिपातनं विज्ञायते। नार्थ एतेनेति। असेवितग्रहणेन। कथं तेन विना सिद्धिः ? तत्राह -गोष्पदप्रतिषेधादिति। सत्यमिति। गोष्पदप्रतिषेधादिति यदुक्तम्, तत् सत्यं मन्यते, न तु नार्थ एतेनेति। तद् यदि सत्यम्, किमर्थं तर्ह्यसेवितग्रहणम् ? इत्याह -यत्र त्विति। नञ्समासो हि तत्पुरुषः स्वभावादुतरपदार्थसदृशमर्थमाचष्टे-अब्राह्मणवत्, ततश्च न गोष्पदमगोष्पदमिति नञ्समासे कृते यत्र सेवितस्य सेवनस्य प्रसङ्गोऽस्ति, तत्रैवागोष्पदमिति स्यात्, स एव गोष्पद स्य देशस्य सदृशः; यत्र त्वत्यन्तास्म्भव एव सेवितस्य तत्र न स्यात्। असेवित ग्रहणसामर्थ्यातु बहुव्रीहिराश्रीयते, स चात्यन्ताभावेऽपि भवति। तेन येषु गवामत्यन्तासम्भवः, तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। अत्यन्तासम्भवं स्पष्टयति -यानि हि महान्त्यरण्यानीति। तत्र केचिदाहुः -यत्र गवामत्यन्तासम्भवः, तत्रैवागोष्पदशब्दः प्रयोक्तव्यः, न त्वसम्भव इति। अन्ये त्वविशेषेणेच्छन्ति। न चैवमसेवितग्रहणस्य वैयर्थ्यम्, असति ह्यस्मिन्नत्यन्तासम्भवे न स्यात्। गोष्पदपूरमिति।'वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य गोः सम्बन्धि पदमर्थः, न तु प्रमाणम्? तत्राह -नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयत इति। तथा च गोष्पदपूरं वृष्टे देव इति। असत्यपि गोष्पदपूरणे प्रयुज्यते, यथा -चेलक्नोपं वृष्टो देव इत्यसत्यपि चेलक्रोपे ॥