6-1-140 किरतौ लवने संहितायाम् सुट् उपात्
उपादित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुट् कात् पूर्वो भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्तीत्यर्थः। णमुलत्र वक्तव्यः। लवन इति किम्? उपकिरति देवदत्तः॥
उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥<!अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम् !> (वार्तिकम्) ॥ उपास्किरत् । उपचस्कार ॥
उपात्किरतेः सुट् छेदने । उपस्किरति । <<अडभ्यासव्यवायेऽपि सुट् कात् पूर्व इति वक्तव्यम्>> (वार्त्तिकम्) । उपास्किरत् । उपचस्कार ॥
<<किरतौ लवने>> - किरतौ लवने । उपादिति । 'उपात्प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । 'सुट कात्पूर्व' इत्यस्तदनुवृत्तेरिति भाव- । अडभ्यासव्यवायेऽपीति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् ।
किरतौ लवनविषय इति। अर्थद्वारकं किरतेर्लवनविषयत्वम्, लवनविषये विक्षेपे यः किरतिर्वर्तते तत्रेत्यर्थः। तदाह - विक्षिप्य लुनन्तीत्यर्थ इति। साक्षातु विषये किरतेर्लवनमेवार्थः स्यात्। णमुलत्र वक्तव्य इति। आभीक्षण्यादेर्णमुलर्थस्याभावात् ॥ हिसायां प्रतेश्च ॥ हिसायां विषय इति। न त्वभिधेयायाम्। विक्षेप एव त्वभिधेयः, तदेव दर्शयति - तथेति। उदाहरणे नपुंसके भावे क्तः, हंशब्द कोपे। परिनिविभ्य एव सुटः षत्वम्, न प्रतेः ॥