उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु

6-1-139 उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु संहितायाम् सुट् करोतौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः। विकृतमेव वैकृतम्। प्रज्ञादित्वादण् ५.४.३८। गम्यमानार्थस्य वाक्यस्य स्वरूपेणोपादानं वाक्यस्याध्याहारः। एतेष्वर्थेषु गम्यमानेषु करोतौ धातौ परत उपात् सुट् कात् पूर्वो भवति। प्रतियत्ने तावत् — एधोदकस्योपस्कुरुते। काण्डं गुडस्य उपस्कु रु ते। वैकृते — उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति। वाक्याध्याहारे — उपस्कृतं जल्पति। उपस्कृतमधीते। एतेष्विति किम्? उपकरोति॥

Siddhanta Kaumudi

Up

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृता ब्राह्मणाः । एधो दकस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते ॥ {$ {! 7 वनु !} याचने $} ॥ वनुते ॥ {$ {! 8 मनु !} अवबोधने $} ॥ मनुते ॥ मेने । मनिता । मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीष्ट । अमत, अमनिष्ट । अमनिष्यत ॥ इति तनादयः ॥ ८ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु>> - प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननुसंपरिभ्या॑मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः ।लिटि धातो॑रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम् । ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते —

Padamanjari

Up

सत इत्यादि। लब्धसताकस्यार्थस्य पूर्वं ये गुणा आधीयन्ते। येन तद्गुणान्तराधान तत्पुनः किमर्थम् ? इत्याह - आधिक्यायेति। आधिक्यमुवृद्धिः। वृद्धस्य वा तादवस्थयायेति। तस्य वृद्धियुक्तावस्थायाः प्रच्युतिपरिहारायेत्यर्थः। समीहाउचेष्टा। अगम्यमानार्थस्येति। अर्थप्रकरणादिना। वाक्यस्येति। वाक्यैकदेशस्येत्यर्थः। एधो दकस्येति। जातिद्वन्द्वः,'कृञः प्रतियत्ने' इति षष्ठी,'प्रतियत्नप्रकथनोपयोगेषु कृञः' इत्यात्मनेपदम्। उपस्कृतं भुङ्क्तु इति। क्रियाविशेषणम्, विकृतं भुङ्क्त इत्यर्थः। उपस्कृतं जल्पतीति। साध्याहारं यथा तथा जल्पतीत्यर्थः। अथैवं कस्मान्न कृतम् -'सम्प्रतिभ्यां करोतौ भूषणसमवाययोः, उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च' इति ? सूत्रकारं पृच्छ ॥