6-1-141 हिंसायां प्रतेः च संहितायाम् सुट् उपात् किरतौ
किरतावित्येव। उपात् प्रतेश्चोत्तरस्मिन् किरतौ सुट् कात् पूर्वो भवति हिंसायां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयाद् यथा हिंसामनुबध्नातीत्यर्थः। हिंसायामिति किम् ? प्रतिकीर्णम्॥
उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति ।{$ {!1410 गॄ!} निगरणे$} ॥
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति। प्रतिस्किरति॥ {$ {! 40 गॄ !} निगरणे $} (धातुपाठे <{06.0146}>)॥
<<हिंसायां प्रतेश्च>> - हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते । तदाह - उपादिति । गृ निगरणे इति । निगरणं - भक्षणम् । सेट् ।