समवाये च

6-1-138 समवाये च संहितायाम् सुट् सम्परिभ्यम् करोतौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समवायः समुदायः, तस्मिंश्चार्थे करोतौ संपर्युपेभ्यः कात् पूर्वः सुडागमो भवति। तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्। समुदितमित्यर्थः॥

Siddhanta Kaumudi

Up

संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः <{SK1217}> इति ज्ञापकात् । परिनिविभ्यः <{SK2275}> इति षः । परिष्करोति ॥ सिवादीनां वा - ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥

Laghu Siddhanta Kaumudi

Up

सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । सम्पूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षा इति ज्ञापकात् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<समवाये च>> - समवाये च । कोरतेः सुट् स्यादिति । 'सुट् कात्पूर्वः' इत्यतो,नित्यं करोते॑रित्यतश्च तदनुवृत्तेरिति भावः ।

Padamanjari

Up

उदाहरणेषु भावे निष्ठा। एवं समुदितमित्यत्रापि ॥