सुट् कात् पूर्वः

6-1-135 सुट् कात् पूर्वः संहितायाम्

Kashika

Up

index: 6.1.135 sutra: सुट् कात् पूर्वः


अधिकारोऽयम् पारस्करप्रभृतीनां च संज्ञायाम् 6.1.175 इति यावत्। इत उत्तरं यद् वक्ष्यामस्तत्र सुटिति , कात् पूर्वः इति च एतदधिकृतं वेदितव्यम्। वक्ष्यति सम्पर्युपेभ्यः करोतौभूषणे 6.1.137। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। कात् पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थम्। तथा हि संस्कृषीष्ट, संस्क्रियते इति संयोगादिलक्षणौ इड्गुणौ न भवतः। तिङ्ङतिङः 8.1.18 इति निघातोऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात्? स्वरविधौ व्यञ्जनमविद्यमानवतिति वचनान् न अस्ति व्यवधानम् संचस्करतुः, संचस्करुः इति गुणः कथम्? तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति। संयोगोपधग्रहणं च ऋतश्च संयोगादेर्गुणः 7.4.10 इत्यत्र कर्तव्यम्। टित्करणं सुट्स्तुस्वञ्जाम् इत्यत्र विशेषणार्थम्।

Siddhanta Kaumudi

Up

index: 6.1.135 sutra: सुट् कात् पूर्वः


अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व इत्यादि भाष्ये प्रत्याख्यातम् । तथाहि । पूर्वं धातुरूपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च ऋतश्च संयोगादेर्गुणः <{SK2389}> संचस्करतुः । कृसृभृ - <{SK2293}> इति सूत्रे ऋतो भारद्वाजस्य <{SK2296}> इति सूत्रे च ।<!कृञोऽसुट इति वक्तव्यम् !> (वार्तिकम्) ॥ तेन ससुट्कात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्ति - <{SK2380}> इति सूत्रे नित्यं छन्दसि <{SK3587}> इति सूत्रान्नित्यमत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेः - <{SK2526}> इति लिङ्सिचोर्नेट् । एकाच उपदेशे <{SK2276}> इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् । इति तिङन्ततनादिप्रकरणम् ।

Padamanjari

Up

index: 6.1.135 sutra: सुट् कात् पूर्वः


संस्कर्तति। संम्पुंकानां सो वक्तव्यःऽ इति वचनात्'समस्सुटि' इति द्विसकारकत्वाद्वा निर्देशस्य समो मकारसक्य सकारः, ठत्रानुनासिकः पूर्वस्य तु वाऽ इति पूर्वस्यानुनासिकः। इह'सम्पर्युपेभ्यः करोतौ भूषणे' ,'किरतौ लवने' इत्यादौ ककारादावागमिनि टित्वादेव सुट् कात्पूर्वो लभ्यते।'ह्रस्वाच्चन्द्रोतरपदे' इत्यादौ कात्पूर्वत्वसम्भवादनुपयोग एवेत्यनर्थकं कात्पूर्वग्रहण्। स्यादेतत् - संचस्कारेत्यादावभ्यासे सञ्जाते साभ्यासस्य करोतित्वाच्चात्पूर्वः सुट स्यात्, मा भूच्चात्पूर्वः, कात्पव एव यथा स्यादित्येवमर्थं कात्पूर्वग्रहणमिति ? तन्न; अत्र हि लिटि द्विर्वचनं च प्राप्नोति, सुट् च; तत्र द्विर्वचनमकृते सुटि कृशब्दस्य प्राप्नोति, कृते तु स्कृशब्दस्य। सुडपि कृते द्विर्वचने चकृशब्दस्य प्राप्नोति, अकृते तु कृशब्दस्येत्युभयोरनित्ययोः परत्वात् सुटि कृते तस्य धातुग्रहणेन ग्रहणात् सहैव तेन द्विर्वचने'सर्पूर्वाः खयः' इति खयः शेषे संचस्कारेति सिद्धम्। न च साभ्यासस्याकृतः सुकडिति पुनः सुट्प्रसङ्गः; अस्मिन्नेव प्रयोगे लक्षणस्य प्रवृतत्वात् । ननु'पूर्वं धातुः साधनेन युज्यते' इति दर्शने पूर्वं साधनवाचिनि लकारे तदाश्रये च द्विर्वचने एकपदाश्रयत्वादन्तरङ्गे कृते पदद्वयाश्रयत्वाद्बहिरङ्गः सुट् पश्चाद्भावन् चात्पूर्वः स्यात्, समस्कारोदित्यादौ चान्तरङ्गत्वात् परत्वाच्चाटि कृते तेन व्यवधानान्नैव सुट् स्यात्, विकरणान्ताङ्गभक्तो ह्यडागमस्तमेव न व्यवदध्यात्, करोतिं तु व्यवदधात्येव; इह च समस्कृत, संस्कृथा इति यत्र करोतिरेवारङ्गं तत्राटः कृग्रहणेन ग्रहणादट एव पूर्वः सुट् स्यात्, अतोऽडभ्यासयोरपि कृतयोः कात् पूर्वः सुड।ल्था स्यादिति कर्तव्यं कात्पूर्वग्रहणम्? न कर्तव्यम्; ठडभ्यासव्यवायेऽपिऽ त्येतिस्मादेव निर्देशादेतत्सिद्धम्। न च तत्र करिष्यामीति कात्पूर्वग्रहणम्, कृतेऽप्यस्मिन्नसिद्धेः। तथा हि-क्रियमाणमप्येतत्कालावधारणार्थं वा स्यात् - करोतेस्तस्यामवस्थायां सुड् भवति यस्यामवस्थायां भवन् कात्पूर्वो भवतीति। करोत्यवधारणारथं वा - तस्य करोतेः सुड् भवति यस्य भवन् कात्पूर्वो भवतीति। तत्र पूर्वस्मिन्पक्षे यद्यप्यन्तरङ्गे अप्यडद्विर्वचने बाधित्वा कात्पूर्वग्रहणसामर्थ्यात् पूर्वं सुड् भवति, पश्चातयोः कृतयोरिष्ट्ंअ सिद्ध्यति। द्वितीये तु प्रत्युताभ्यासवतोर्निर्वृत्यर्थमेव कात्पूर्वग्रहणं स्यात्, न हि तद्वतोर्भवन् कात्पूर्वः कृतः स्यात्। स्यादेतत् - न करोत्यवधारणार्थं कात्पूर्वग्रहणम्, किं तहि ? अपकृष्य विधिः, करोतेः सर्वत्र सुड भवति, स तु प्रदेशान्तरे प्राप्तः कात्पूर्वः कर्तव्य इति ? एवमपि समस्कृत, समस्कृथा इति सिद्ध्यति, अटऋः प्राक्प्राप्नुवन् कात्पूर्वो नीयत इति, समास्करोदित्यादौ त्वसिद्धिरेव, कथम् ? प्रदेसान्तरे प्राप्तस्य विधिरपकृष्य भवति,न चात्र सुट् प्राप्तोऽचा व्यवदानादिति कथमपकृष्य विधिर्भवेत्। कथं च संचस्कारेत्यादावपि द्धिःप्रयोगे द्विर्वचने उच्चारणभेदाच्छब्दभेद इति द्वौ करोती, तत्र यः समोऽनन्तरो न तस्य ककारः, यस्य च ककारो नासौ समोऽनन्तरः - इति अप्राप्तत्वान् न कात्पूर्वं विधीयेत ? स्थाने द्विर्वचने च स्थानिवद्भावादेक एव करोतिः, स चाव्यवहित इति कातु पूर्वः प्राप्तः कात् पूर्वः कृत इति न कश्चिद्दोषः। तदेवं धातुः पूर्वं साधनेन युज्यते, ततश्च क्रियमाणेऽपि कात्पूर्वग्रहणे नैवेष्ट्ंअ सिध्यतीति ठड्भ्यासव्यवायेऽपिऽ इत्येतदेव कर्तव्यम्। कात्पूर्वग्रहणं तु शक्यमकर्तुमति वातिंककारस्य पक्षः। यदि तु'सम्पर्युपैः करोतौ' इति तृतीयानिर्द्दशेन समादिभिरुपसृष्टस्य सुड्विधीयते, तदा व्यवहितस्याप्युपसृष्टत्वात्कात्पूर्वग्रहणेनाप्ययमर्थः शक्यते सम्पादयितम्। कथम्? समस्करोदित्यादौ तावदन्तरेणापि कात्पूर्वग्रहणमटो न भविष्यति; तस्य करोतिं प्रत्यनवयवत्वात्। करोतेस्तु भविष्यति; व्यवहितस्याप्युपसृष्टत्वात्। समस्कृतेत्यादौ त्वटः पूर्व प्रापर्तः कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं प्राप्तः कात्पूर्वं करिष्यते। द्विःप्रयोगे तु द्वयोरपि करोत्योः प्राप्तः पूर्वस्मादेव करिष्यते, न हि तस्य कृतः कात्पूर्वः कृतः स्यादिति सिद्धमिष्टम्ग। भाष्यकारस्तु मेने - उभयं न कर्तव्यम्। पूर्वं धातुरुपसर्गेण युज्यते, ततश्चानु त्पन्न एव प्रत्यये संकृ इति स्थिते सुटि कृते लकारः, ततस्तन्निबन्धनावडभ्यासौ ससुट्कस्यैव भविष्यतः। ननु च लब्धस्वरूपा क्रिया विशेषणमाकाङ्क्षति, तल्लाभश्च साधनान्तर इति पूर्वं धातुः साधनेन युज्यते, लब्ध्वस्वरुपेति, कोऽरथ ? किं प्रतिपन्नस्वरूपा, उत निष्पन्नस्वरूपा? निष्पतिस्तावद्विशेषणसम्बन्धेनोपयुज्यते, प्रतिपतिस्तु विशेषणसम्बन्धात्प्रागपि क्रियायाः सम्भवति। विशिष्टा च क्रिया साधनेन युज्यते, तता हि - तिष्ठतीति गतिनिवृतेः साधनसम्बन्धः प्रतीयते, प्रतिष्ठत इति गतेः, गच्छतीति गमनस्य, आगच्छतीत्यागमनस्य, करोतीति व्यापारमात्रस्य, संस्करोतीति भूषणस्य। विशिष्टा च क्रियोपसर्गसम्बन्धे सत्येव प्रतीयत इति द्योतकत्वेन वाचकत्वेन वा पूर्वमुपर्स्गसम्बन्धोऽपेक्षणीयः। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा भवतेरकर्मत्वाद्भावे लकार उत्पन्ने पश्चादनुशब्देन सम्बन्दे अनुभूयते कम्बलो देवदतेनेति कथं कर्मणि लकारःस्यात्? अतः'पूर्वं धातुरूपसर्गेण युज्यते' इत्येतदेव सम्प्रतिपन्नम्। एवं च पूर्वोक्तन्यासेन सिद्धमिष्टमिति नार्थः कात्पूर्वग्रहणेन, नापि ठडभ्यासव्यवायेऽपिऽ इत्यनेन। यदि पूर्वं धातुरुपसर्गेण युज्यते; अध्येता, प्रत्येता, प्रत्यायक इत्यादौ पूर्वं धातूपसर्गयोरेकादेशे तस्य धातुं प्रत्यादिवत्वातत एव प्रत्ययोत्पतावनिष्ट्ंअ प्राप्नोति ? नैष दोषः,'नेन्द्रस्य परस्य' इत्यत्र ज्ञापितमेतत् - पूर्वोतरपदयोस्तावत्कार्यं भवति, पश्चात् स्वरसन्धिरति। प्रत्यय इति वा निर्देशोऽस्यार्थस्य ज्ञापकः। वृत्तिकारस्तु - उभयं वक्तव्यमिति मन्यमानः कात्पूर्वग्रहणस्य तावत्प्रयोजनमाह - कात्पूर्वग्रहणमित्यादि। किं पुनरभक्तत्वे प्रयोजनम् ? अत आह - तथा हीति। संस्कृषीष्टेति। आशिषि लिङ्, आत्मनेपदम्, ठुश्चऽ इति कित्वम्, सुट्,तयोः कात्पूर्वः सुट्, तस्य करोतिभक्तत्वात् करोतिग्रहणेण ग्रहणात् कृञः संयोगादिता ज्ञायेतेति ठृतश्च संयोगादेःऽ इतीट् प्रसज्येत। संस्क्रियत इति। कर्मणि लट् रिङ् शयग्लिङ्क्षुऽ। अत्रापि भक्तत्वे सुटः कृञः संयोगादित्वात्'गुणो' र्तिसंयोगाद्योःऽ इति गुणः स्यात्, अतस्यौ मा भूतामिति अभक्तः सुडेषितव्य इति भावः। निघातोऽपि तर्हि न प्राप्नोति? समः पदस्य सुटा व्यवहितत्वात्, सुटश्चापदत्वात्। गुणः कथमिति। सुटोऽभक्तत्वेनाङ्गस्य संयोगादित्वाभावात्प्रशनः।'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति स्थानेद्विर्वचनपक्षे द्विःप्रयोगे च समुदायस्यैवाङ्गसंज्ञेत्युक्त्, ततश्च तदङ्गमध्यपतितः तदङ्गग्रहणेन गृह्यते। नन्वेवमपि असंयोगादित्वं तदवस्थम् ? अत आह - संयोगोपधग्रहणं चेति। अन्त्यादचः पूर्वस्य वर्णस्योपधासंज्ञाविधानात्'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इत्येतदुक्तं भवति, यदि न सम्भक्तः सुट् टित्करणं किमर्थम् ? इत्यत आह - टित्करणममिति।'सुटस्तुस्वञ्जाम्' इत्युच्यमाने सुरेत्यादौ यः सुशब्दौ यश्चोपसर्गस्तस्यापि ग्रहणं स्यात्, ततश्च सुरां परिचष्टे परिसुरयतीत्यादावपि प्राप्नोति ॥