अनुदात्ते च कुधपरे

6-1-120 अनुदात्ते च कुधपरे संहितायाम् अचि प्रकृत्या यजुषि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यजुषीत्येव। अनुदात्ते चाति कवर्गधकारपरे परतो यजुषि विषय एङ् प्रकृत्या भवति। अ॒यं ना॑े॑ अ॒ग्निः(मा० सं० ५.३७)। अयं सो अध्वरः। अनुदात्त इति किम् ? अधोऽग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपर इति किम् ? सोऽयमग्निः सहस्रियः (तु० — मा० सं० १५.२१)॥

Siddhanta Kaumudi

Up

कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कवर्गधकारपरे इति। कवर्गधकारौ परौ यस्मात्स तथोक्तः। धकारेऽकार उच्चारणार्थः। अग्निशब्दः ठङ्गेनिर्नलोश्चऽ इति निप्रत्ययान्तोऽन्तोऽदातः अध्वरशब्दः प्रातिपदिकस्वरेयणान्तोदातः। आद्यौदातो निपात्यत इति। ठृन्नेन्द्राग्रऽ इत्यादावुणादिसूत्रे अग्रशब्दः प्रातिपदिकस्वरेणान्तोदातः ॥