अङ्ग इत्यादौ च

6-1-119 अङ्गे इत्यादौ च संहितायाम् अचि प्रकृत्या यजुषि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अङ्गशब्दे य एङ् तदादौ चाकारे यः पूर्वः स यजुषि विषयेऽति प्रकृत्या भवति। ऐन्द्रः प्राणो अङ्गेअङ्गे अदीध्यत् । एे॒न्द्रः प्॒राणो अङ्ग॑े॑अङ्गे॒ नि दी॑॑ध्यत् (मा० सं० ६.२०)। ऐन्द्रः प्राणो अङ्गेअङ्गे अशोचिषम्॥

Siddhanta Kaumudi

Up

अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अङ्गशब्दे य एङिति।'स प्रकृत्या भवति' इति वक्ष्यमाणेन सम्बन्धः। तदातौ चाकारे यः पूर्व इति। ठेङ्ऽ इत्यपेक्ष्यते, पूर्ववच्च सम्बन्धः। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिशब्दस्यार्थमाचष्टे, तस्याङ्गशब्दस्यादिस्तदादिः। चकार किमर्थः, असति चकारेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्, ततश्चाङ्गेऽङ्गे इत्यत्रैव स्यात्। सति तु तस्मिन्नङ्गशब्दस्य एवैङ् यत्र क्वचिदति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिदेङ् प्रकृत्या भवतीत्ययमर्थो भवति। तेन अङ्गे अदीध्यत्, प्राणो अङ्गे - इत्युभयत्रापि भवति ॥