6-1-118 आपो जुषाणो वृष्णो वर्षिष्ठे म्बे म्बाले अम्बिके पूर्वे संहितायाम् अचि प्रकृत्या यजुषि
यजुषीत्येव। आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दा अम्बे अम्बाले इत्येतौ च यावम्बिकेशब्दात् पूर्वौ यजुषि पठितौ तेऽति परतः प्रकृत्या भवन्ति। आपा॑े॑ अ॒स्मान्मा॒तर॑ः॑ शुन्धयन्तु (मा० सं० ४.२)। जुषा॒णो अ॒प्तुराज्य॑॑स्य (मा० सं० ५.३५)। वृष्णा॑े॑ अ॒शुभ्यां॒ गभ॑॑स्तिपूतः (मा० सं० ७.१)। वर्षि॑ष्ठे॒ अधि॒नाके॒ (तै० सं० १.१.८.२)। अम्बे॒ अम्बा॒ले अम्बि॑॑के। यजुषीदमीदृशमेव पठ्यते। अस्मादेव निपातनाद् <<अम्बार्थनद्योर्ह्रस्वः>> ७.३.१०७ इति ह्रस्वत्वं न भवति॥
यजुषि अति प्रकृत्या । आपो अस्मान्मातरः (आपो॑ अ॒स्मान्मा॒तरः॑) । जुषाणो अग्निराज्यस्य (जु॒षा॒णो अ॒ग्निराज्य॒स्य) । वृष्णो अंशुभ्याम् (वृष्णो॒ अंशु॑भ्याम्) । वर्षिष्ठे अधि नाके (वर्षि॑ष्ठे॒ अधि॒ नाके॑) । अम्बे अम्बाले अम्बिके । अस्मादेव वचनात् अम्बार्थ - <{SK267}> इति ह्रस्वो न ॥
आपो इत्यादीनि पृथक् पदानि अनुकरणानि, विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति।'सुपां सुलुक्' इति वा विभक्तेर्लुग् भवति, अम्बिकेपूर्व इत्येतदप्यनुकरणमेव। तत्र प्रथमं जसन्तम्, द्वितीयं स्वन्तम्, तृतीयं शसन्तम्, चतुर्थं ङ्यन्तम्, इतरे सम्बुद्ध्यन्ते। अम्बिकेशब्दात्पूर्वाविति। अस्मादेव निपातनात्पञ्चमीसमासः। अस्मादेव निपातनादिति। अम्बेत्येतद्विषयमेतत्। इतरयोस्तु ठम्बार्थं द्व्यक्षरम्ऽ इति वक्ष्यमाणत्वान्नैव ह्रस्वप्रसङ्गः ॥