6-1-117 यजुषि उरः संहितायाम् अचि प्रकृत्या
उरःशब्द एङन्तो यजुषि विषयेऽति प्रकृत्या भवति। उरो अन्तरिक्षम् । अपरे <<यजुष्युरो>> इति सूत्रं पठन्ति, उकारान्तमुरुशब्दं संबुद्ध्यन्तमधीयते। त इदमुदाहरन्ति — उरो॑े॑ अन्तरिक्षे स॒जूः (तै० सं० १.३.८.१) इति। यजुषि पादानामभावादनन्तःपादार्थं वचनम्॥
उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥