6-1-116 अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च संहितायाम् अचि प्रकृत्या अन्तः
अव्यात् अवद्यात् अवक्रमुः अव्रत अयम् अवन्तु अवस्यु इत्येतेषु वकारयकारपरेऽप्यति परतोऽन्तः पादमेङ् प्रकृत्या भवति। अ॒ग्निः प्॑॑रथ॒मो वस॑ु॑भिर्नो अव्या॒त् (तै० सं० २.१.११.२)। मि॑॑त्रमहो अव॒द्यात् (ऋ० ४.४.१५)। माशि॑वासो॒ अव॑॑क्रमुः (ऋ० ७.३२.२७)। ते ना॑े॑ अव्रताः। शा॑॑तवा॒रो अ॒यं म॒णिः (शौ० सं० १९.३६.५)। ते ना॑े॑ अवन्तु पि॒तरः॒ (ऋ० १०.१५.१)। कु॒शि॒कासा॑े॑ अव॒स्यव॑ः॑ (ऋ० ३.४२.९)॥
एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥
अव्यादीनामनुकरणत्वात्समासो विभक्तिश्च। अव्यादिति। अवेराशिषि लिङ्। अवद्यादिति। पञ्चम्येकवचनान्तम्। अवक्रमुरिति। अवपूर्वस्य क्रमेर्लिट।लुसि'दिर्वचनप्रकरणे च्छन्दसि वा वक्तव्यम्' इति द्विर्वचनाभावे रूपम्। केचितु सूत्रे अवचक्रमुरिति कृतद्विर्वचनं वठन्ति, तेषामुदाहरणं मृग्यम्; बह्वृचस्तावद् - अवक्रमुरित्यधीयते। अव्रतेति। वृङ्वृञोः'मन्त्रे घस' इत्यादिना च्लेर्लुक्, ठात्मनेपदेप्वनतःऽ इति अदादेशः। अयमिति। इदम्-शब्दात् सुः, ठिदोऽय् पुंसिऽ। अवतेर्लोट्, अवन्तु, तस्मादेवासुनन्तात् क्यच्,'क्याच्छन्दसि' इत्युप्रत्ययः - अवस्युः। तेनोवन्तु पितरो हवेष्विति बह्वृचाः पूर्वरूपमेवाधीयते। अधिब्रुवन्तुं तेऽवन्त्वस्मानिति ॥