2-3-64 कृत्वर्थप्रयोगे काले अधिकरणे अनभिहिते षष्ठी शेषे
छन्दसि बहुलमिति निवृत्तम्। कृत्वोऽर्थानां प्रत्ययानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति। पञ्चकृत्वोऽह्नो भुङ्क्ते। द्विरह्नोऽधीते। कृत्वोऽर्थग्रहणं किम्? अह्नि शेते। रात्रौ शेते। प्रयोगग्रहणं किम्? अहनि भुक्तम्। गम्यते हि द्विस्त्रिश्चतुर्वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणं किम्? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरण इति किम्? द्विरह्ना भुङ्क्ते। शेष इत्येव — द्विरहन्यधीते॥
कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥
<<कृत्वोऽर्थप्रयोगे कालेऽधिकरणे>> - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी ।
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति।'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' द्विरिति।'द्वित्रिचतुर्भ्यः सुच्' अर्थग्रहणमेतदर्थम्॥