नाडीतन्त्र्योः स्वाङ्गे

5-4-159 नाडीतन्त्र्योः स्वाङ्गे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्

Kashika

Up

index: 5.4.159 sutra: नाडीतन्त्र्योः स्वाङ्गे


स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यः नाड्यः अस्य बहुनाडिः कायः। बहुतन्त्री ग्रीवा। धमनीवचनस् तन्त्रीशबः। स्वाङ्गे इति किम्? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा।

Siddhanta Kaumudi

Up

index: 5.4.159 sutra: नाडीतन्त्र्योः स्वाङ्गे


स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥

Balamanorama

Up

index: 5.4.159 sutra: नाडीतन्त्र्योः स्वाङ्गे


नाडीतन्त्र्योः स्वाङ्गे - नाडीतन्त्र्योः स्वाङ्गे । बहुनाडिः काय इति । प्राणिस्थत्वात्स्वाङ्गत्वसूचनायकाय इति विशेष्यम् । उपसर्जह्रस्वः ।नद्यृतश्चे॑ति प्राप्तः कब्न भवति । बहुतन्त्रीग्र्रीवेति । बह्व्यस्तन्त्र्यो यस्या इति विग्रहः । वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह — तन्त्रीर्धमनीति । बहुतन्त्रीशब्देगोस्त्रियो॑रिति ह्रस्वमाशङ्क्याह — स्त्रीप्रत्ययान्तत्वाऽभावादिति ।अवितृस्तृतन्त्रीभ्य ईः॑ इत्यौणादिकस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।

Padamanjari

Up

index: 5.4.159 sutra: नाडीतन्त्र्योः स्वाङ्गे


नाडीशब्दो जातिलक्षणङीषन्तः। तन्त्रीशब्दः ठवितृस्तृतन्त्रिभ्य ईःऽ इतीकारान्तः। बहरुनाडिरिति। उपसर्जनह्रस्वम्। बहुतन्त्रीरित्यत्र तु'कृत्स्त्रियाः प्रतिषेधः' इति वचनान्न भवति ॥