5-4-158 ऋतः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप् न
ऋवर्णान्ताद् बहुव्रीहेश्छन्दसि विषये कप् प्रत्ययो न भवति। हता मातास्य ह॒तमा॑ता॒ (शौ०सं० २.३२.४)। हतपिता। ह॒तस्व॑सा (शौ०सं० २.३२.४)। सुहो॑ता (ऋ० ७.६७.३)॥
ऋदन्ताद्बहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥