5-4-157 वन्दिते भ्रातुः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप् न
index: 5.4.157 sutra: वन्दिते भ्रातुः
वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। वन्दितः स्तुतः पूजितः इत्युच्यते। शोभनो भ्राता अस्य सुभ्राता। वन्दितः इति किम्? मूर्खभ्रातृकः। दुष्टभ्रातृकः।
index: 5.4.157 sutra: वन्दिते भ्रातुः
पूजितेऽर्थे यो भ्रातुशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रास्तभ्राता । न पूजनात् <{SK954}> इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः- <{SK852}> इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥
index: 5.4.157 sutra: वन्दिते भ्रातुः
वन्दिते भ्रातुः - वन्दिते भ्रातुः । पूजितेऽर्ते इति ।वदि अभिवादनस्तुत्यो॑रित्युभयार्थकवदिधातोरिह उभयसाधारमपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति ।नद्यृतश्चे॑ति प्राप्तः कबिह निषेध्यते । सुभ्रातेति । सु=शोभनो भ्राता यस्य स इति विग्रहः । अत्रापिनद्यृतश्चे॑ति प्राप्तस्य कपो निषेधः । ननुन पूजना॑दित्येव निषेधे सिद्धे किमर्थमिदमित्यत आह — न पूजनादिति । प्रागेवेति । एवंच 'नद्यृतश्चे' त्यादिकपस्तेन निषेधाऽप्राप्तौ इदं वचनमिति भावः ।
index: 5.4.157 sutra: वन्दिते भ्रातुः
वन्दितः स्तुत इति। यद्यपि'वदि अभिवादनस्तुत्योः' इत्यभिवादनेऽपि वदिः पठ।ल्ते, तथापि व्याख्यानात्स्तुत्यर्थस्यैव ग्रहणमिति दर्शयति। तेन वन्दितभ्रातृक इत्यत्र कब्भवत्येव ॥