ईयसश्च

5-4-156 ईयसः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्

Kashika

Up

index: 5.4.156 sutra: ईयसश्च


ईयसन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। सर्वा प्राप्तिः प्रतिषिध्यते। बहवः श्रेयांसः अस्य बहुश्रेयान्। शेषाद् विभाषा 5.4.154 इत्यस्य प्रतिषेधः। बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी। नद्यृतश्च 5.4.153 इत्यस्य् प्रतिषेधः। ह्रस्वत्वमपि न भवति, ईयसो बहुव्रीहौ पुंवतिति वचनात्।

Siddhanta Kaumudi

Up

index: 5.4.156 sutra: ईयसश्च


ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोः - <{SK656}> इति ह्रस्वे प्राप्ते ।<!ईयसो बहुव्रीहेर्नेति वाच्यम् !> (वार्तिकम्) ॥ बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥

Balamanorama

Up

index: 5.4.156 sutra: ईयसश्च


ईयसश्च - ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईयसन्तत्वादाह — ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत #इति भावः । न कबिति ।न संज्ञेयसो॑रिति वक्तव्ये पृथग्योगकरणान्नित्यस्य वैकल्पिकत्य च कपोऽयं निषेध इति भावः । श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । 'द्विवचनविभज्य' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, 'आद्गुणः' इति गुणः । बहुश्रेयानिति । शैषिकः कब्निषिध्यते । ह्रस्वत्वे प्राप्ते इति । बह्व्यः श्रेयस्यो यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात्गोस्त्रियो॑रिति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्ताद्बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति ।नद्यृतश्चे॑ति नित्यः कबिह निषिध्यते, लिङ्गविसिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । ईयसो बहुव्रीहेरित्यत्रे॑ति शेषः । अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः ।

Padamanjari

Up

index: 5.4.156 sutra: ईयसश्च


सर्वा प्राप्तिः प्रतिषिद्ध्यत इति। न तु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति शेषलक्षणस्यैव कपः प्रतिषेध इति सर्वशब्दस्यार्थः। एतच्च शेषादित्येतस्य निवृतत्वात्कब्मात्रस्यानुवृतेर्लभ्यते। बहुश्रेयसीति। लिङ्गविशिष्टग्रहणादत्र प्रतिषेधः। यथात्र सोर्हल्ङ्यादिलोपः, तथा तत्रैव वक्ष्यामः। ह्रस्वत्वमपि न भवतीति।'गोस्त्रियोरुपसर्जनस्य' इति प्राप्तम्। कस्मात्? इत्याह - ईयसो बहुव्रीहावित्यादि। पुंवद्वचनेनात्र न स्त्रीप्रत्ययस्य निवृत्तिर्विवक्षिता, किं तर्हि? ह्रस्वप्रकरणातदभावः। तथा च'गोस्त्रियोः' इत्यत्र वृतौ-ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इत्येवोक्तम् ॥