न संज्ञायाम्

5-4-155 न सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। विश्वे देवा अस्य विश्वदेवः। विश्वयशाः॥

Siddhanta Kaumudi

Up

शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<न संज्ञायाम्>> - न संज्ञायाम् । शेषादिति प्राप्त इति ।अनन्तरस्ये॑ति न्यायात् । 'सेषाद्विभाषा' इति विहितस्य कपएवायं निषेधो, नतु व्यवहितस्यनद्यृतश्चे॑त्यादिकप इति भावः । विओ देवा अस्येति । अत्र संज्ञायां समासस्य नित्यत्वाल्लौकिकविग्रहप्रदर्शनं चिन्त्यमेव ।

Padamanjari

Up