5-4-153 नदी ऋतः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्
index: 5.4.153 sutra: नद्यृतश्च
नद्यन्तात् बहुव्रीहेः ऋकारान्तात् च कप् प्रत्ययो भवति। बह्व्यः कुमार्य अस्मिन् देशे बहुकुमारीकः देशः। बहुब्रह्मबन्धूकः। ऋतः खल्वपि बहुकर्तृकः। तकारः मुखसुखार्थः।
index: 5.4.153 sutra: नद्यृतश्च
नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः ॥
index: 5.4.153 sutra: नद्यृतश्च
नद्यृतश्च - नद्यृतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी ।बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यृद्भ्यां विशेष्यते । तदन्तविधिः । 'उरः प्रभृतिभ्यः' इत्यतः कबित्यनुवर्तते । तदाह — नद्युत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः ।नद्यन्ताद्बहुव्रीहे॑रिति न व्याख्यातं, बहुधीवरीति बहुव्रीहेर्नद्यन्तत्वात्कबापत्तेः ।नद्यन्तोत्तरपदा॑दिति व्याख्याने तु न दोषः, धीवन्शब्दयोत्तरपदस्य नकारान्तत्वेन नदीत्वाऽभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्या रात्रेः समासवाच्यत्वाऽभावेन निषेधाऽभावादिति भावः ।
index: 5.4.153 sutra: नद्यृतश्च
नद्यन्ताद्बहुव्रीहेरिति। अत्रान्तशब्द उतरपदे वर्तते, नद्यौतरपदाद्बहुव्रीहेरित्यर्थः। यद्वा - बहुव्रीह्यर्थमुतरपदं बहुव्रीहिः, तस्मान्नद्यन्तादित्यर्थः। किं सिद्धं भवति? बहुग्रामणीर्नगरी,बहुखलपूर्नगरीत्यत्र कब् निवर्तितो भवति ॥