इनः स्त्रियाम्

5-4-152 इनः स्त्रियाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इन्नन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये। बहवो दण्डिनोऽस्यां शालायां बहुदण्डिका शाला। बहुच्छत्रिका। बहुस्वामिका नगरी। बहुवाग्ग्मिका सभा। स्त्रियामिति किम्? बहुदण्डी राजा, बहुदण्डिकः। <<शेषाद् विभाषा>> ५.४.१५४ इत्येतद् भवति॥

Siddhanta Kaumudi

Up

बहुदण्डिका नगरी ॥ [(परिभाषा - ) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति] ॥ बहुवाग्ग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इनः स्त्रियाम्>> - इनः स्त्रियाम् । इन्नन्तात् पर् स्याद्बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डोऽस्या अस्तीति दण्डी । 'अत इनिठनौ' इति इनिः । बहवो दण्डिनो यस्यामिति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्ग्मी । वाचो ग्मिनिः॑ इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वाद्गकारस्य नेत्संज्ञा, चकारस्य कुत्वम्, जश्त्वम्, वाग्ग्मीति रूपम् । बहवो वाग्ग्मिनो यस्यामिति विग्रहः । अत्रेन अनर्थकत्वेऽपिअनिनस्मन्नि॑ति वचनात्तदन्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी बहुदण्डिको ग्राम इति । बहवो दण्डिनो यस्मिन्निति विग्रहः । अत्र समासस्याऽस्तरीलिङ्गत्वान्न नित्यः कविति भावः ।

Padamanjari

Up

ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधं प्रयोजयन्तिऽ ॥