5-4-150 सुहृद्दुर्हृदौ मित्रामित्रयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ लोपः
सुहृद् दुर्हृद् इति निपात्यते यथासंख्यं मित्रामित्रयोरभिधेययोः। सुशब्दात् परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात् परस्य। शोभनं हृदयमस्य सुहृद् मित्रम्। दुष्टं हृदयमस्य दृर्हृद् अमित्रम्। मित्रामित्रयोरिति किम् ? सुहृदयः कारुणिकः। दृर्हृदयश्चोरः॥
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥
<<सुहृद्दुर्हृदौ मित्रामित्रयोः>> - सुह्मद्दुह्र्मदौ । यथासङ्ख्यमभिप्रेत्योदाहरति — सुह्मन्मित्रमिति । सु शोभनं ह्मदयं यस्येति विग्रहः ।