5-4-148 उद्विभ्यां काकुदस्य प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ लोपः
उद् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदमस्य उत्काकुत्। विकाकुत्। तालु काकुदमुच्यते॥
लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥
लोपः स्यात्। उत्काकुत्। विकाकुत्॥
<<उद्विभ्यां काकुदस्य>> - उद्विभ्यां काकुदस्य । लोप इति । उद्विभ्यां परस्य काकुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्दं व्याचष्टे-काकुदं ताल्विति ।