5-4-147 त्रिककुत् पर्वते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ लोपः
index: 5.4.147 sutra: त्रिककुत् पर्वते
त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वतेऽभिधेये। त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः। ककुदाकारं पर्वतस्य शृङ्गं ककुदम् इत्युच्यते। न च सर्वस्त्रिशिखरः पर्वतः त्रिककुत्। किं तर्हि? संज्ञैषा पर्वतविशेषस्य। पर्वते इति किम्? त्रिककुदोऽन्यः।
index: 5.4.147 sutra: त्रिककुत् पर्वते
त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥
index: 5.4.147 sutra: त्रिककुत् पर्वते
त्रिककुत् पर्वते - त्रिककुत्पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककुदिति कृताऽकारलोपो निपात्यते । त्रीणि ककुदानि शृङ्गाणि यस्येत्यर्थः ।
index: 5.4.147 sutra: त्रिककुत् पर्वते
पर्वतेऽन्यपदार्थे मुख्यस्य ककुदस्यासम्भवादाह - ककुदाकारं शृङ्गमित्यादि। न चेत्यादि। उच्यत इत्यस्यानुषङ्गः। संज्ञैषेत्यादि। एतच्च निपातनाल्लभ्यते। एवं च पर्वतग्रहणं विस्पष्टार्थम् ॥