ककुदस्यावस्थायां लोपः

5-4-146 ककुदस्य अवस्थायां लोपः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तोऽवस्थायां गम्यमानायाम्। कालादिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यते। असञ्जातं ककुदमस्य असंजातककुत्। बालइत्यर्थः। पूर्णककुत्। मध्यमवया इत्यर्थः। उन्नतक कुत्। वृद्धवया इत्यर्थः। स्थूलककुत्। बलवानित्यर्थः। यष्टिककुत्। नातिस्थूलो नातिकृश इत्यर्थः। अवस्थायामिति किम्? श्वेतककुदः॥

Siddhanta Kaumudi

Up

अजातककुत् । पूर्णककुत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ककुदस्यावस्थायां लोपः>> - ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवनामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । अजातककुदिति । अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्णं ककुदमस्येति विग्रहः । युवेत्यर्थः ।

Padamanjari

Up

कालादिकृता इति। सादिशब्देनाहारपरिणामादेर्ग्रहणम् ॥