5-4-145 अग्रान्तशुद्धशुभ्रवृषवराहेभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ दन्तस्य दतृ विभाषा
विभाषेत्येव। अग्रान्ताच्छब्दात् शुद्ध शुभ्र वृष वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा दतृ इत्ययमादेशो भवति समासान्तो बहुव्रीहौ समासे। कुड्मलाग्रदन्, कुड्मलाग्रदन्तः। शुद्धदन्, शुद्धदन्तः। शुभ्रदन्, शुभ्रदन्तः। वृषदन्, वृषदन्तः। वराहदन् वराहदन्तः। अनुक्तसमुच्चयार्थश्चकारः। अहिदन्, अहिदन्तः। मूषिकदन्, मूषिकदन्तः। गर्दभदन्, गर्दभदन्तः। शिखरदन् शिखरदन्तः॥
एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥
<<अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च>> - अग्रान्त । अग्रः=अग्रशब्दोऽन्तेऽवसाने यस्य स अग्रान्त इत्यभिप्रेत्योदाहरति — कुड्मलाग्रदन्निति । कुड्मलानां-मुकुलानाम् — अग्राणि, तानीव दन्ता यस्येति विग्रहः । शुद्धदन् । शुद्धदन्तः । शुभ्रदन्-शुभ्रदन्तः । वृषदन्-वृषदन्तः । वराहदन्-वराहदन्तः ।
चकारोऽनुक्तसमुच्चयार्थः। अहिदन्नित्यादि। भाष्ये एतन्नाश्रितम् ॥