5-4-144 विभाषा श्यावारोकाभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ दन्तस्य दतृ
श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययमादेशो भवति विभाषा समासान्तो बहुव्रीहौ। श्यावदन्, श्यावदन्तः। अरोकदन्, अरोकदन्तः। अरोको निर्दीप्तिः। संज्ञायामित्येव — श्यावदन्तः। अरोकदन्तः॥
दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥
<<विभाषा श्यावारोकाभ्याम्>> - विभाषा श्यावारोकाभ्यां । शेषपूरणेन सूत्रं व्याचष्टे — दन्तस्येति । श्यावदन्निति । श्यावा धूम्रा दन्ताः यस्येति विग्रहः ।श्यावः स्यात्कपिशो धूम्रः॑ इत्यमरः । अरोकदन्निति । अरोकाः=अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः ।
अरोको निर्दीप्तिरिति। रुच दीप्तौऽ,रोचनमुरोकः, स न विद्यते यस्येति कृत्वा ॥