5-4-143 स्त्रियां सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ दन्तस्य दतृ
स्त्रियामन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययमादेशो भवति। अयोदती। फालदती। संज्ञायामिति किम् ? समदन्ती। स्निग्धदन्ती॥
एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥
<<स्त्रियां संज्ञायाम्>> - स्त्रियां संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । संज्ञाविशेषाविमो । समदन्तीति । समा दन्ता यस्या इति विग्रहःनासिकोदरे॑ति ङीष् ।
अच्छन्दोऽर्थमिदम्। अयोगतीति। अय इव दन्ता अस्या अयोदती, उगित्वान्ङीप्। समदन्तीति।'नासिकोदरोष्ठ' इत्यादिना ङीष् ॥