5-4-141 वयसि दन्तस्य दतृ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ सङ्ख्यासुपूर्वस्य
संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दस्तस्य दतृ इत्ययमादेशो भवति समासान्तो वयसि गम्यमाने। ऋ कार उगित्कार्यार्थः। द्वौ दन्तावस्य द्विदन्। त्रिदन्। चतुर्दन्। शोभना दन्ता अस्य समस्ता जाताः। सुदन् कुमारः। वयसीति किम् ? द्विदन्तः कुञ्जरः। सुदन्तो दाक्षिणात्यः॥
संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥
<<वयसि दन्तस्य दतृ>> - वयसि दन्तस्य दतृ । द्विदन्निति । द्वौ दन्तौ यस्येति विग्रहः । शिशुत्वं गम्यते । दन्तस्य दत्रादेशः । ऋकार इत् । उगित्त्वान्नुम् । सुलोपः । संयोगान्तलोपः । तस्याऽसिद्धत्वादुपधादीर्घो न । चतुर्दन्निति । चत्वारा दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षोडन्निति । षट् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् ।षष उत्त्व॑मिति ष्टुत्वोत्त्वे । सुदन्निति । सु=शोभना दन्ताः समस्ता जाता यस्येति विग्रहः । वयाविशेषावगतये समस्तस्य निवेशः । सुदतीति । शोभना दन्ताः समस्ता यस्या इति विग्रहः । दत्रादेशः ।उगितश्चे॑ति ङीप् । द्विदन्तः करीति । हस्तिनः सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः ।
द्वितन्निति। ऋकारस्योग्त्कार्यार्थत्वाद् ठुगिदचाम्ऽ इति नुम् ॥