5-4-139 कुम्भपदीषु च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
index: 5.4.139 sutra: कुम्भपदीषु च
कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते। तत्र एवं सूत्रम् ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये यथा कुम्भपद्यादयः। सिध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः स्त्रियाम् एव, तत्र ङीप्प्रत्यये एव, न अन्यदा। कुम्भपदी। शतपदी। यच् च इह उपमानपूर्वं सङ्ख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। पादोऽन्यतरस्याम् 4.1.8 इति विकओपो न भवति। कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पज्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः।
index: 5.4.139 sutra: कुम्भपदीषु च
कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् <{SK414}> ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥
index: 5.4.139 sutra: कुम्भपदीषु च
कुम्भपदीषु च - कुम्भपदीषु च । कुम्भपदीष्विति बहुवचननिर्देशाद्गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः । ङीप् चेति ।पादोऽन्यतरस्या॑मिति विकल्पापवाद इति । भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः ।पदास्य लोपोऽहस्त्यादिभ्यः॑ इति लोपे सिद्धे तदनुवादेन नित्यं ङीबर्थं वचनम् ।
index: 5.4.139 sutra: कुम्भपदीषु च
बहुवचननिर्द्देशात्प्रभृत्यर्थोऽवगम्यत इत्याह - कुम्भपदीप्रमृतय इति। समुदाया एव निपात्यन्त इति। कथं तर्हि सूत्रे भूतविभक्तया सप्तम्या निर्द्देशः? इत्यत आह - तत्रेति। विषयग्रहणेन सूत्रे विषयसप्तमीति दर्शयति - यथा कुम्भपद्यादयः सिद्ध्यन्तीति। यतदोर्नित्यसम्बन्धात्पूर्वत्र तथा लोपो भवतीत्यर्थो ग्राह्यः। किमर्थं पुनः समुदाया एव निपात्यन्ते, न कुम्भादीनेव गणे पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत ? तत्राह - समुदायपाठस्य चेति। विषयनियममेव दर्शयति - स्त्रियामेवेति। अत्र च स्त्रियामपि ङीप्प्रत्यय एव।'पादो' न्तरस्याम्ऽ इति यदा ङीब्विषयभूतस्तदैवेत्यर्थः। यच्चेत्यादि। उपमानपूर्वपदम्-कुम्भपदी, जालपदीत्यादि; संख्यापूर्वपदमेकपदी, शतपदीति। अष्टापदीति पठ।ल्ते, तत्र निपातनाद्दीर्घत्वम्, ठष्टनः संज्ञायाम्ऽ इति वाऽऽकारः ॥