5-4-137 उपमानात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
उपमानात् परो यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्येव गन्धोऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः॥
पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥
<<उपमानाच्च>> - उपमानाच्च । उपमानवाचिपूर्वपदात्परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसंबन्धिगन्धसदृशो लाक्षणिकम् ।सप्तम्युपमानपूर्वपदस्ये॑ति समासः ।