अल्पाख्यायाम्

5-4-136 अल्पाख्यायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ गन्धस्य इत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अल्पाख्यायां यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। सूपोऽल्पोऽस्मिन् सूपगन्धि भोजनम्। अल्पमस्मिन् भोजने घृतं घृतगन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः॥

Siddhanta Kaumudi

Up

सूपस्य गन्धो लोशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इति विश्वः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अल्पाख्यायाम्>> - अल्पाख्यायाम् । अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः । 'लेशः' इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धो यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति । उत्पूतिसुसुरभिपूर्वंकत्वाऽभावादेकान्तत्वाऽभावाच्चाऽप्राप्ते वचनमिदम् । व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । घृतगन्धीति । घृतस्य गन्धो लेशो यस्मिन्निति विग्रहः । गन्धशब्दस्याऽल्पवाचित्वे प्रमाणमाह — गन्धो गन्धक इति ।

Padamanjari

Up

सुपोऽल्पोऽस्मिन्सूपगन्धीति। अर्थप्रदर्शनमेतत्, विग्रहस्तु सूपस्य गन्धो लेशोऽस्मिन्निति; इन्यथा विशेषणत्वाद् गन्धशब्दस्य पूर्वनिपातः स्यात्। यद्वा - अस्मादेव निपातनाद् गन्धशब्दस्य परनिपातः ॥