5-4-135 गन्धस्य इत् उत्पूतिसुसुरभिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। तकार उच्चारणार्थः। उद्गतो गन्धोऽस्य उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम् ? तीव्रगन्धो वातः॥ गन्धस्येत्वे तदेकान्तग्रहणम्॥ तेन शोभनो गन्धोऽस्य सुगन्ध आपणिकः॥
एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ।<!गन्धस्येत्त्वे तदेकान्तग्रहणम् !> (वार्तिकम्) ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥
<<गन्धस्येदुत्पूतिसुसुरभिभ्यः>> - गन्धस्येदुत् । 'गन्धस्य-इत्' इति च्छेदः । एभ्य इति । उत्-पूति-सु-सुरभि-एतेभ्यः इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात्आदेः परस्ये॑ति न भवति । उद्नन्धिरिति । उद्गतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरबौ । पूर्तिर्गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरभौ । पूर्तिर्गन्धो यस्येति विग्रहः । सर्वत्रवायु॑रिति विशेष्यम् । तदेकान्तेति । तस्य =विशेष्यभूतद्रव्यस्य, एकान्तः=एकदेश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्क्य एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याह — एकान्त एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात्सलिलाच्च द्रव्यात्पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति । 'सु' इत्यस्य व्याख्यानं-शोभना इति । गन्धा इति । गन्धवन्त इत्यर्थः ।गुणवचनेभ्यो मतुपो लुगिष्टः॑ इति लुक् । द्रव्याणीति । चन्दनादीनीत्यर्थः । 'गन्धा' इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात्पुंस्त्व#ं युज्यते ।गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः॑ इति कोशात् । गन्ध आपण इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः ।
इकारादेशो भवतीति। षष्ठीनिर्द्देशादादेशत्वावसायः। प्रकरणभेदाय चादेशत्वं व्यवस्थाप्यते, न त्वस्मिन्प्रत्ययेऽपि कश्चिद्दोषः। गन्धशब्दोऽयमस्ति द्रव्यवचनः - वहति जलमियम्, पिनष्टि गन्धानियमिति, अस्ति च गुणवचनः - चन्दनस्य गन्ध इति, तत्र गुणवाचिनो ग्रहणार्थमाहगन्धस्येत्वं इति। रूपादिसमुदायःउद्रव्यम्, तस्य गन्धलक्षणो गुण एकान्त एकदेशो भवति, ऊपादिव्यतिरिक्तमवयवि द्रव्यमिति तु पक्षे एकान्त इवैकान्तः; तत्स्थस्योपलम्भात्। सुगन्ध आपणिक इति। आपणे नियुक्त आपणिकः; प्राग्वहतीयष्ठक्। भवार्थे वा अध्यात्मादित्वाट्ठक्। अथ वायौ कथं सुगन्धिः, दुगन्धिरिति, न ह्ययं गन्धो वायोर्गुणः? मा भूतस्य गुणः, तेन तावदविभागापन्नो लक्ष्यते, एतावदेव च तदेकान्तत्वं विवक्षितम्, न तद्गुणत्वम्। एवं च कृत्वा कुङ्कुमाद्यनुलेपनमपि यदा देवदतादेरविभागपन्नं भवति तदेत्वं भवत्येव - सुगन्धिर्देअवदत इति, सर्वथा द्रव्यवचननिवृत्तिः ॥