गन्धस्येदुत्पूतिसुसुरभिभ्यः

5-4-135 गन्धस्य इत् उत्पूतिसुसुरभिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। तकार उच्चारणार्थः। उद्गतो गन्धोऽस्य उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम् ? तीव्रगन्धो वातः॥ गन्धस्येत्वे तदेकान्तग्रहणम्॥ तेन शोभनो गन्धोऽस्य सुगन्ध आपणिकः॥

Siddhanta Kaumudi

Up

एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ।<!गन्धस्येत्त्वे तदेकान्तग्रहणम् !> (वार्तिकम्) ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गन्धस्येदुत्पूतिसुसुरभिभ्यः>> - गन्धस्येदुत् । 'गन्धस्य-इत्' इति च्छेदः । एभ्य इति । उत्-पूति-सु-सुरभि-एतेभ्यः इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात्आदेः परस्ये॑ति न भवति । उद्नन्धिरिति । उद्गतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरबौ । पूर्तिर्गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरभौ । पूर्तिर्गन्धो यस्येति विग्रहः । सर्वत्रवायु॑रिति विशेष्यम् । तदेकान्तेति । तस्य =विशेष्यभूतद्रव्यस्य, एकान्तः=एकदेश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्क्य एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याह — एकान्त एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात्सलिलाच्च द्रव्यात्पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति । 'सु' इत्यस्य व्याख्यानं-शोभना इति । गन्धा इति । गन्धवन्त इत्यर्थः ।गुणवचनेभ्यो मतुपो लुगिष्टः॑ इति लुक् । द्रव्याणीति । चन्दनादीनीत्यर्थः । 'गन्धा' इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात्पुंस्त्व#ं युज्यते ।गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः॑ इति कोशात् । गन्ध आपण इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः ।

Padamanjari

Up

इकारादेशो भवतीति। षष्ठीनिर्द्देशादादेशत्वावसायः। प्रकरणभेदाय चादेशत्वं व्यवस्थाप्यते, न त्वस्मिन्प्रत्ययेऽपि कश्चिद्दोषः। गन्धशब्दोऽयमस्ति द्रव्यवचनः - वहति जलमियम्, पिनष्टि गन्धानियमिति, अस्ति च गुणवचनः - चन्दनस्य गन्ध इति, तत्र गुणवाचिनो ग्रहणार्थमाहगन्धस्येत्वं इति। रूपादिसमुदायःउद्रव्यम्, तस्य गन्धलक्षणो गुण एकान्त एकदेशो भवति, ऊपादिव्यतिरिक्तमवयवि द्रव्यमिति तु पक्षे एकान्त इवैकान्तः; तत्स्थस्योपलम्भात्। सुगन्ध आपणिक इति। आपणे नियुक्त आपणिकः; प्राग्वहतीयष्ठक्। भवार्थे वा अध्यात्मादित्वाट्ठक्। अथ वायौ कथं सुगन्धिः, दुगन्धिरिति, न ह्ययं गन्धो वायोर्गुणः? मा भूतस्य गुणः, तेन तावदविभागापन्नो लक्ष्यते, एतावदेव च तदेकान्तत्वं विवक्षितम्, न तद्गुणत्वम्। एवं च कृत्वा कुङ्कुमाद्यनुलेपनमपि यदा देवदतादेरविभागपन्नं भवति तदेत्वं भवत्येव - सुगन्धिर्देअवदत इति, सर्वथा द्रव्यवचननिवृत्तिः ॥