5-4-132 धनुषः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अनङ्
index: 5.4.132 sutra: धनुषश्च
धनुःशब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। शार्ङ्गं धनुरस्य शार्ङ्गधन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा।
index: 5.4.132 sutra: धनुषश्च
धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥
index: 5.4.132 sutra: धनुषश्च
धनुषश्च - धनुषश्च ।ऊधसोऽनङि॑ति पूर्वसूत्रं स्त्रीप्रत्ययादिकारे व्याख्यातं, तस्मादनङित्यनुवर्तते । तदाह — अनङादेश इति । ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुशब्दे सकारस्य अनङादेशः । ङकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शाङ्र्गधन्वेति । शृङ्गस्येदं शाङ्र्गं ।तस्येद॑मित्यण्, तत् धनुर्यस्येति विग्रहः । समासे शाङ्र्गधनुःशब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः । उकारस्य यणिति भावः । महिम्नःस्तवेस्वलावण्याशंसाधृतधनुषमि॑ति प्रयोगस्त्वार्षः ।