वा संज्ञायाम्

5-4-133 वा सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अनङ् धनुषः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

धनुःशब्दान्ताद् बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्राप्तो विकल्प्यते। शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा॥

Siddhanta Kaumudi

Up

शतधन्वा । शतधनुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वा संज्ञायाम्>> - वा शंज्ञायां । 'धनुषश्च' इत्युक्तोऽनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाक्याने प्रसिद्ध । जायाया निङ् । आदेश इति ।प्रत्ययः, परश्चे॑त्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेशोऽयमिति भावः ।

Padamanjari

Up