ऊर्ध्वाद्विभाषा

5-4-130 ऊर्ध्वात् विभाषा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ जानुनोः ज्ञुः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुरित्ययमादेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः॥

Siddhanta Kaumudi

Up

ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऊर्ध्वाद्विभाषा>> - ऊध्र्वाद्विभाषा । ऊध्र्वशब्दात् परो यो जानुशब्दस्तस्य ज्ञुरादेशो वा स्यात्, बहुव्रीहावित्यर्थः । ऊध्र्वज्ञुरिति । ऊर्ध्वे जानुनी यस्येति विग्रहः ।

Padamanjari

Up

ङ्त्किरणादन्त्यादेशत्वम्, अकारादित्वं च निश्चित्याऽऽहानङदेशो भवतीति। कुण्डोध्नीति।'बहुव्रीहेरूधसो ङीष्' , ठल्लोपोऽनःऽ। अनङ्विधानमुतरार्थम्, इह तु नकारादेशेनापि सिद्धम् ॥