प्रसम्भ्यां जानुनोर्ज्ञुः

5-4-129 प्रसम्भ्यां जानुनोः ज्ञुः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञुः॥

Siddhanta Kaumudi

Up

आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रसम्भ्यां जानुनोर्ज्ञुः>> - प्रसंभ्यां । जानुशब्दयोरिति.॒प्र॑ 'सम्' इति पूर्वपदद्वित्वादुत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । 'जानुन' इत्युक्ते तुप्रत्ययः, परश्चे॑त्यधिकारात् पञ्चम्यन्तत्वसंभवाज्ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाह — ज्ञुरादेश इति । प्रज्ञुरिति ।प्रादिभ्यो धातुजस्ये॑ति समासः । संज्ञुरिति । सङ्गते जानुनी यस्येति विग्रहः ।

Padamanjari

Up

ज्ञुरित्ययमादेश इति। प्रत्ययस्त्वयं न भवति; षष्ठीद्विवचनेन निर्देशात्। इह हि जानुशब्दस्यैकत्वेऽपि अर्थगतं द्वित्वम्, उपपदनिबन्धनं वा द्वित्वमाश्रित्य जानुनोरिति निर्देश एतदर्थ- क्रियते - स्थानषष्ठीत्वमसन्दिग्धं कथं विज्ञायेतेति। च्छन्दसि तु स्वतन्त्रोऽपि ज्ञुशब्दो दृश्यते - ठुपज्ञुबाधो नभसाऽ,'सदेम वत्सज्ञुं पशुकामस्य' इति ॥