द्विदण्ड्यादिभ्यश्च

5-4-128 द्विदण्ड्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ इच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्विदण्ड्यादयः शब्दा इच्प्रत्ययान्ताः साधवो भवन्ति। द्विदण्ड्यादिभ्य इति तादर्थ्य एषा चतुर्थी, न पञ्चमी। द्विदण्ड्याद्यर्थमिच् प्रत्ययो भवति। तथा भवति यथा द्विदण्ड्यादयः। सिध्यन्तीत्यर्थः। समुदायनिपातनाच्चार्थविशेषेऽवरुध्यन्ते। द्विदण्डि प्रहरति। द्विमुसलि प्रहरति। इह न भवति — द्विदण्डा शालेति। बहुव्रीह्यधिकारेऽपि तत्पुरुषात् क्वचिद् विधानमिच्छन्ति। निकुच्य कर्णौ धावति। निकुच्यकर्णि धावति। प्रोह्य पादौ हस्तिनं वाहयति। प्रोह्यपादि हस्तिनं वाहयति। मयूरव्यंसकादित्वात् २.१.७२ समासः॥ द्विदण्डि। द्विमुसलि। उभाञ्जलि। उभयाञ्जलि। उभाकर्णि। उभयाकर्णि। उभादन्ति। उभयादन्ति। उभाहस्ति। उभयाहस्ति। उभापाणि। उभयापाणि। उभाबाहु। उभयाबाहु। एकपदि। प्रोह्यपदि। आढ्यपदि। सपदि। निकुच्यकर्णि। संहतपुच्छि। उभाबाहु, उभयाबाह्विति निपातनादिच्प्रत्ययलोपः। प्रत्ययलक्षणेनाव्ययीभावसंज्ञा॥

Siddhanta Kaumudi

Up

तादर्थ्ये चतुर्थ्येषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्विदण्ड्यादिभ्यश्च>> - द्विदण्डआदिभ्यश्च । द्विदण्डआदिषु इदन्तानामेव निपातनात्तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशङ्क्य नेयं पञ्चमीत्याह — तादर्थ्ये चतुर्थ्येषेति । द्वौ दण्डाविति । कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिरिच्प्रत्ययश्च निपात्यते । द्विदण्डीति । दण्डादण्डीतिवत् प्रक्रिया । कर्मव्यतिहाराऽभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः । उभाहस्ति । उभयाहस्तीति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः ।उभयोऽन्यत्रे॑ति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च ।

Padamanjari

Up

यदि'द्विदण्कड।लदयः साधवो भवन्ति' - इत्ययमर्थोऽभिप्रेतः,'द्विदण्ड।लदिभ्यः' इति सूत्रपदस्य कथं निर्वाहः? अत आह-द्विदण्ड।लदिभ्य इति। तादर्थ्य एषा चतुर्थीत्यादि। समुदायनिपातनाच्येति। समुदाया यत्र प्रसिद्धास्तत्रैव तेषामवरोधःउअवस्थापनं यथा स्यादित्येवमर्थं समुदायनिपातनमित्यर्थः। द्विदण्कडि प्रहरतीति। द्वौ दण्डावस्मिन्प्रहरणे इति विग्रहः। इह न भवतीति। किं न भवति? द्विदण्डीत्येतच्छब्दरूपं साधु न भवतीत्यर्थः। बहुव्रीह्यधिकारेऽपीति। अत्रापि'समुदायनिपातनाच्च' इत्ययमेव हेतुः। ननु प्रातिपदिकेष्विच्प्रत्ययान्तपाठादेव सिद्धं द्विदण्ड।लदीनां साधुत्वम्, तत्किमनेन? तन्न; न हि पाठमात्रेणेजन्तत्वं शक्यमवगन्तुम्; ततश्चाव्ययीभावसंज्ञा न स्यात्। अनार्षश्च पाठः शङ्क्येत; क्वचिदप्यनुपयोगात् ॥