इच् कर्मव्यतिहारे

5-4-127 इच् कर्मव्यतिहारे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् प्रत्ययो भवति। <<तत्र तेनेदमिति सरूपे>> २.२.२७ इत्ययं बहुव्रीहिर्गृह्यते। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। मुसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि। दण्डादण्डि। तिष्ठद्गुप्रभृतिषु २.१.१७ अयमिच् प्रत्ययः पठ्यते॥

Siddhanta Kaumudi

Up

कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इच् कर्मव्यतिहारे>> - इच्कर्मव्यतिहारे । समासान्त इति । तद्धित इत्यरि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता ।

Padamanjari

Up

अयं बहुव्रीहिर्गृह्यत इति। अस्यैव कर्मव्यतिहारे वृतेः। उदारहरणेषु ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्। तिष्ठद्गुप्रभृतिष्वयमिच् पठ।ल्ते इति। तेनाव्ययीभावसंज्ञकत्वादव्ययत्वे सति सुब्लुग्भवतीति भावः। यद्येवम्, अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधनात्समासस्वरेणैवान्तोदातत्वं सिद्धमिति नार्थश्चित्करणेन? विशेषणार्थं तु। असति हि तस्मिस्तिष्ठद्गुप्रभृतिष्विकारमात्रं पठ।लेत, ततश्च ठच इःऽ इत्यस्यापि ग्रहणं स्यात् ॥