5-4-126 दक्षिणेर्मा लुब्धयोगे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अनिच्
दक्षिणेर्मेति कृतसमासान्तो निपात्यते बहुव्रीहौ समासे लुब्धयोगे। लुब्धो व्याधः। दक्षिणमीर्ममस्य दक्षिणेर्मा मृगः। ईर्मं व्रणमुच्यते। दक्षिणमङ्गं व्रणितमस्य व्याधेनेत्यर्थः। लुब्धयोग इति किम् ? दक्षिणेर्मं शकटम्॥
दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥
<<दक्षिणेर्मा लुब्धयोगे>> - दक्षिणेर्मा । लुब्धो-व्याधः, तद्योगे 'दक्षिणेरमा' इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईर्मं यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानंव्रण॑मिति व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् । अनिचियस्येति चे॑त्यकारलोपेदक्षिणेर्मे॑ति रूपम् । लुब्धशब्दं विवृण्वन्नाह-व्याधेनेति । रोगादिना व्रणे तु दक्षिणेर्म इत्येवेति भावः ।
लुब्धो वयाध इति। कवयस्तु हिंसामात्रे प्रयुञ्जते -'बालीहेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा' इति यथा। व्रणितमिति। व्रणशब्दादितच्।'व्रम गात्रविचूर्णने' इत्यस्माद्वा चौरादिकणिजन्ताक्तः ॥