जम्भा सुहरिततृणसोमेभ्यः

5-4-125 जम्भा सुहरिततृणसोमेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अनिच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहुव्रीहौ समासे स्वादिभ्यः परं जम्भेति कृतसमासान्तमुत्तरपदं निपात्यते। जम्भशब्दोऽभ्यवहार्यवाची दन्तविशेषवाची च। शोभनो जम्भोऽस्य सुजम्भा देवदत्तः। शोभनाभ्यवहार्यः शोभनदन्तो वा। एवं हरितजम्भा। तृणजम्भा। सोमजम्भा। दन्तवचनेतृणमिव जम्भोऽस्य, सोम इव जम्भोऽस्येति विग्रहीतव्यम्। सुहरिततृणसोमेभ्य इति किम्? पतितजम्भः॥

Siddhanta Kaumudi

Up

जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जम्भा सुहरिततृणसोमेभ्यः>> - नन्विह सूत्रे पूर्वपदशब्दस्याऽश्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह — पूर्वपदं त्विति । जम्भा सुहरित ।जम्भे॑ति नकारान्तं पदम् । तदाह — जम्भेति कृतसमासान्तमिति । अनिजन्तनित्यर्थः । सु-हरुत-तृण-सोम-इत्येतेभ्यः परो यो जम्भशब्दस्तदन्ताद्बहुव्रीहेरनिच्प्रत्ययो निपातित इति भावः । जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचियस्येति चे॑त्यकारलोपः । हरितजम्भेति । हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः=चन्द्रः, स इव शुभ्रा जम्भाः=दन्ता यस्येति विग्रहः ।सोमः=सोमलता वा, सैव जम्भः=भक्ष्यं यस्येति विग्रहः । पतितिजम्भ इति । पतिता जम्भाः=दन्ता यस्येति विग्रहः ।

Padamanjari

Up

दन्तवचनो वेति। ठिममम्भसुतं पिबऽ इति दर्शनात् ॥