5-4-124 धर्मात् अनिच् केवलात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
केवलाद् यो धर्मशब्दः तदन्तात् बहुव्रीहेरनिच्प्रत्ययो भवति समासान्तः। कल्याणो धर्मोऽस्य कल्याणधर्मा। प्रियधर्मा। केवलादिति किम् ? परमः स्वो धर्मोऽस्य परमस्वधर्मः। यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति — परमः स्वो धर्मोऽस्येति? एवं तर्हि केवलादिति पूर्वपदं निर्दिश्यते, केवलाद् पदाद् यो धर्मशब्दो न पदसमुदायात्, तदन्ताद् बहुव्रीहेः प्रत्ययः॥
केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ माभूत् । स्वशब्दो हीह न केवलं पूर्वपदम् किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहव्रीहिः । एवं च परमस्वधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽऽक्षिप्यते ॥
<<धर्मादनिच् केवलात्>> - धर्मादनिच्केवलात् ।पूर्वपदा॑दित्यध्याह्मत्यकेवला॑दित्यस्य तद्विशेषणत्वमाह — केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मद्यमपदत्वानाक्रान्तत्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचियस्येति चे॑त्यकारलोपः । परम इति । परमः स्वो धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात्ततः परमस्वधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह — स्वशब्दो हीह न केवलं पूर्वपदमिति । किं त्विति । किं तु स्वशब्दो धर्मपदापेक्षया पूर्वत्वात्पूर्वपदं, न तु केवलं, मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्य वाचिना मध्यमपद्तावनाक्रान्तत्वलाभादित्यर्थः । इदंचइजादे॑रिति सूत्रभाष्ये स्पष्टम् ।एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् ।सर्वनामसङ्ख्ययोरुपङ्ख्यान॑मिति स्वशब्दस्य पूर्वनिपातस्तु 'वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति । नन्वेवं सति सन्दिग्धः साध्यो धर्मो यस्य ससन्दिग्धसाध्यधर्मे॑त्यत्र कथमनिच् । अत्र हि सन्दिग्धेति केवलं पूर्वपदं, धर्मशब्दस्तस्म#आत्परो न भवति । यस्मात्साध्यशब्दात्परो धर्मशब्दः, तस्य तु न पूर्वपदत्वं, मध्यमपदत्वादित्यत आह — सन्दिग्धेति । सन्दिग्धश्चासौ साध्यश्चेति कर्मधारयः । सन्दिग्धसाध्यो धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः । एवञ्च सन्दिग्धसाध्यशब्दस्य केवलपूर्वपदत्वात्तत्राऽनिच्निर्बाध #इति भावः । एवं चेति । उक्तरीत्या परमश्चासौ स्वश्च परमस्वः, परमस्वो धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साद्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वाद्यथायोग्यमनिजिति भावः ।
परमः स्वो धर्मोऽस्य परमस्वधर्म इति।'सर्वनामसंख्ययोरुपसंख्यानम्' इति स्वशब्दस्य पूर्वनिपातो न भवति; प्राप्तस्य चाबाधा व्याख्येयेति, आहिताग्न्यादेराकृतिगणत्वाद्वा ॥