5-4-123 बहुप्रजाः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ नित्यमसिच्
बहुप्रजा इति छन्दसि निपात्यते। बहुप्॒रजा निर्ऋ॑ति॒मावि॑वेश (ऋ० १.१६४.३२)। छन्दसीति किम् ? बहुप्रजो ब्राह्मणः॥
बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥