नित्यमसिच् प्रजामेधयोः

5-4-122 नित्यमसिच् प्रजामेधयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ नञ्दुःसुभ्यः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नञ्दुस्सुभ्य इत्येव। नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्तात् बहुव्रीहेर्नित्यमसिच् प्रत्ययो भवति समासान्तः। अविद्यमाना प्रजास्य अप्रजाः। दुष्प्रजाः। सुप्रजाः। अविद्यमाना मेधास्य अमेधाः। दुर्मधाः। सुमेधाः। नित्यग्रहणं किम् ? यावता पूर्वसूत्रेऽन्यतरस्यांग्रहणं नैव स्वर्यते? एवं तर्हि नित्यग्रहणादन्यत्रापि भवतीति सूच्यते।

श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः।

अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥

Siddhanta Kaumudi

Up

नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नित्यमसिच् प्रजामेधयोः>> - नित्यमसिच् । नञ्दुःसुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच्समासान्त स्यात्, स तद्धित इत्यर्थः । असिचस्चकार इत् । इकार उच्चारणार्थः ।अन्यतरस्या॑मित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । असिचियस्येति चे॑त्यकारलोपादप्रजस्शब्दात्सुबुत्पत्तिः । सौ तुअत्वसन्तस्ये॑ति दीर्घः ।हळ्ङ्या॑बिति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदन्तथापि सिच्यभत्वेन आकारलोपाऽभावादप्रजास्शब्दात्सुबुत्पत्तौ, प्रथमैकवचने 'अप्रजा' इति रूपसिद्धावपि अप्रजासाविति न स्यात् । किंतु अप्रजासावित्यादि स्यात् । तस्मादकारोच्चारमं भत्वसंपादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः ।प्रादिभ्यो धातुजस्ये॑ति समासः । असिजादि पूर्ववत् । अमेधा इत्यादि.अविद्यमानां मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विदानार्थं तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः ।

Padamanjari

Up

असेवायं न विहितः, सकास्येत्संज्ञा मा भूदिति। एवं तर्हीत्यादि। भाष्ये एतन्नाश्रितम्। चित्करणम् - दुःप्रजाः, दुर्मेधा इत्यत्रान्तोदातार्थम्। अन्यत्र'नञ्सुभ्याम्' इत्येव सिद्धम् ॥