5-4-121 नञ्दुःसुभ्यः हलिसक्थ्योरन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अच्
नञ् दुस् सु इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्तात् बहुव्रीहेरन्यतरस्यामच् प्रत्ययो भवति समासान्तः। अविद्यमाना हलिरस्य अहलः, अहलिः। दुर्हलः, दुर्हलिः। सुहलः, सुहलिः। अविद्यमानं सक्थ्यस्य असक्थः, असक्थिः। दुःसक्थः, दुःसक्थिः। सुसक्थः, सुसक्थिः। हलिशक्त्योरिति केचित् पठन्ति। अविद्यमाना शक्तिरस्य अशक्तः, अशक्तिः। विरूपा शक्तिरस्य दुःशक्तः, दुःशक्तिः। शोभना शक्तिरस्य सुशक्तः, सुशक्तिः॥
अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥
<<नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्>> - नञ्दुःसुभ्यः । शेषरपूरणेन सूत्रं व्याचष्टे — अच्स्यादिति । अहलः, अहलिरिति । अविद्यमानो हलिर्यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः । तदन्तादचियस्येति चे॑तीकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धन्तथापि अनुक्तसमासान्तत्वाऽभावादत्र न कप् । असक्थः, असक्थिरिति । अविद्यमानं सक्थि यस्येति विग्रहः । एवं दुःसुभ्यामिति । दुर्हलः, दुर्हलिः । दुःसक्थ, दुःसक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित्पाणिनीया पठन्तीत्यर्थः । केचिच्छिष्याः पाणिनिना तता पाठिता इति वदन्तीति भावः ।
हलिग्रहणमनर्थकम्? कथमहलः, सुहल इति? अकारान्तो हलशब्दोऽस्ति? नन्वर्थभेदोऽस्ति-महद्धलं हलिरित्युच्यते, हलमात्रं तु हलम्? नायमर्थभेदः किञ्चित्करः, क्रियमाणेऽपि हलिग्रहणे हलशब्देनापि समासो न दण्कडवारितः, ततश्च प्रकरणादिवशेन विशेषोऽवगन्तव्यः; सति चैवमकारान्तेनापि समासे प्रकरणादिनैव महस्वमवगंस्यते? इह तर्हि - दुर्हल इत्यकारान्तेनापि समासे पूर्वपदप्रकृतिस्वरः प्राप्नोति, समासान्ते तु विहिते चित्स्वरो भवति। अहलः, सुहल इत्यत्र'नञ्सुभ्याम्' इत्यन्तोदातविधानान्नास्ति विशेषः।'शेषाद्विबाषा' इति च हलिशब्दात्कप् प्रत्ययः प्रसज्येत; तस्माद्धलिग्रहणम्। केचितु हलिशक्त्योरिति पठन्ति। अस्थिपर्यायः शक्तिशब्दः ॥