सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः

5-4-120 सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते। अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम्। शोभनं प्रातरस्य सुप्रा॒तः (शौ० सं० १९.८.३)। शोभनं श्वोऽस्य सुश्वः। शोभनं दिवास्य सु॒दिवः॑ (ऋ० १०.३.५)। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽश्रयोऽस्य चतुरश्रः। एण्या इव पादावस्य एणीपदः। अजस्येव पादावस्य अजपदः। प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठप॒दः (तै०सं० ४.४.१०.३)॥

Siddhanta Kaumudi

Up

एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्त्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद- प्रोष्ठपदाः>> - सुप्रात । सुप्रात इति । अच्प्रत्ययः ।॒अव्ययानां भमात्रे टिलोपः॑ । सुआ इति । अच् । पूर्ववट्टिलोपः । सुदिव इति । शोभनं दिवा यस्येति विग्रहः ।दिवे॑त्याकारान्तमव्ययम् ।अव्ययानां भमात्रे टिलोप॑ इति टिलोपः । शारिकुक्ष इति ।शारिः — पक्षिविशेषः । अचियस्येति चे॑तीकारलोपः । चतरुआओऽश्रय इति । कोणा इत्यर्थः । अचियस्येति चे॑तीकारलोपः । एण्या इवेति । एणी-मृगी । अजपद इति । अजः-छागः, तस्येव पादावस्येति विग्रहः । एणीपदादिषु अच् निपातनात् ।पादः पत् ।

Padamanjari

Up

टिलोपादिकमिति। सुप्रातः, सुख्व इत्यत्र टिलोपः। ठव्ययानां भमात्रे टिलोपःऽ इत्येततु नाश्रितम्। आदिपदेन णणीपदाजपदयोः पद्भावः। शोभनं प्रातरयेति। प्रातः शब्दस्याधिकरणप्रधानत्वात्सामानाधिकरण्याभावात्, प्रातस्तनं कर्म प्रातःशब्देन लक्ष्यते, देवदतादिश्चान्यपदार्थ इत्याहुः। कथं च'वरदः करोतु सुप्रातमह्नामयं नायकः' इति? न ह्ययं बहुव्रीहिः, शोभनं प्रातस्तवार्कः करोत्विति ह्यत्रार्थ? उच्यते; शोभनं प्रातस्तनं कर्म यस्य सन्ध्यादेस्तते करोत्विति क्लेशेनास्य निर्वाहः ॥