उपसर्गाच्च

5-4-119 उपसर्गात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अच् नासिकायाः

Kashika

Up

index: 5.4.119 sutra: उपसर्गाच्च


उपसर्गात् परो यो नासिकाशब्दः तदन्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश्च न समापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिका अस्य उन्नसः। प्रनसः। उपसर्गाद् बहुलम् 8.4.28 इति णत्वम्। वेर्ग्रो वक्तव्यः। विगता नासिका अस्य विग्रः।

Siddhanta Kaumudi

Up

index: 5.4.119 sutra: उपसर्गाच्च


प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥

Balamanorama

Up

index: 5.4.119 sutra: उपसर्गाच्च


उपसर्गाच्च - उपसर्गाच्च । नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह — असंज्ञार्थमिदमिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हिनश्च धातुस्थो॑इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते । 'रषाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्गेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् ।प्र ण आयूँषि तारिषत् इत्याद्युदाहरणम् । अनोत्परः किम् ।प्र नो मुञ्चतम् । अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भङ्क्त्वेति ।

Padamanjari

Up

index: 5.4.119 sutra: उपसर्गाच्च


उपसर्गग्रहणं प्राद्यौपलक्षणम्; नासिकां प्रति क्रियायोगाभावात्। वेर्ग्रो वक्तव्य इति। विशब्दात्परस्य ग्रशब्द आदेशो भवति; प्रत्ययस्त्वजेव ॥