5-4-118 अच् नासिकायाः सञ्ज्ञायां नसं च अस्थूलात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
नासिकान्ताद् बहुव्रीहेरच् प्रत्ययो भवति नासिकाशब्दश्च नसमादेशमापद्यते। अस्थूलादिति नासिकाविशेषणम्, न चेत् स्थूलशब्दात् परा नासिका भवतीति। संज्ञायामिति समुदायोपाधिः। द्रुरिव नासिकास्य द्रुणसः। वाद्ध्रीणसः। <<पूर्वपदात् संज्ञायामगः>> ८.४.३ इति णत्वम्। गोनसः। संज्ञायामिति किम्? तुङ्गनासिकः। अस्थूलादिति किम् ? स्थूलनासिको वराहः॥ खुरखराभ्यां नस् वक्तव्यः॥ खुरणाः। खरणाः। पक्षेऽच्प्रत्ययोऽपीष्यते। खुरणसः। खरणसः। शितिनाः,अहिनाः, अर्चना इति निगम इष्यते॥
नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥
<<अञ्नासिकायाः संज्ञायां नसं चास्थूलात्>> - अञ्नासिकायाः ।अ॑जिति च्छेदः । नासिकाया॑ इत्यस्य बहुव्रीहेर्विशेषणणत्वात्तदन्तविदिमभिप्रेत्याह — नासिकान्तादिति.नसमित्यनन्तरंप्राप्नोती॑त्यध्याहार्यम् । उपस्तितत्वान्नासिकाशब्द इति लभ्यते । तदाह — नासिकाशब्दश्च नसं प्राप्नोतीति ।
नसमिति। द्वितीयानिर्द्देशो वैचित्र्यार्थः। द्रणस इति। द्रुरिव नासिकास्य'पूर्वपदात्संज्ञायागः' इति णत्वम्। वध्रे भवा वाध्री, सा नासिकास्य वाध्रीणसः,'वृद्धिनिमितस्य च तद्धैतस्य' इति पुंवद्भावप्रतिषेधः। गौरिव नासिकाऽस्य गोनसः। खुरखराभ्यां नस् वक्तव्य इति। केवलादेशवचनं प्रत्ययनिवृत्यर्थम्। खुरणाः, खरणा इति। ठत्वसन्तस्य चऽ इति दीर्घः। शितिः कृष्णा नासिकास्य शितिनाः, अहेरिव नासिकाऽस्य अहिनाः। अर्चाउप्रतिमा, तस्या इव नासिकास्य अर्चनाः,'ङ्यापोः संज्ञाच्छन्दसोः' इति ह्रस्वत्वम् ॥