अन्तर्बहिर्भ्यां च लोम्नः

5-4-117 अन्तर्बहिर्भ्यां च लोम्नः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्तर् बहिस् इत्येताभ्यां परो यो लोमन्शब्दस्तदन्ताद् बहुव्रीहेरप् प्रत्ययो भवति। अन्तर्गतानि लोमान्यस्य अन्तर्लोमः प्रावारः। बहिर्लोमः पटः॥

Siddhanta Kaumudi

Up

आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥

Laghu Siddhanta Kaumudi

Up

आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्तर्बहिर्भ्यां च लोम्नः>> - अन्तर्बहिभ्र्यां च । अन्तर्लोम इति । अन्तर्लोमानि यस्येति विग्रहः । अप् । टिलोपः । एवं बहिर्लोमः ।

Padamanjari

Up