अङ्गुलेर्दारुणि

5-4-114 अङ्गुलेः दारुणि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ स्वाङ्गात् षच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अङ्गुलिशब्दान्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तो दारुणि समासार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलं दारु। अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठमुच्यते। यस्य तु द्वे अङ्गुली प्रमाणं दारुणस्तत्र <<तद्धितार्थो०>> २.१.५१ इति समासे कृते <<तत्पुरुषस्याङ्गुलेः०>> ५.४.८६ इत्यचा भवितव्यम्। दारुणीति किम्? पञ्चाङ्गुलिर्हस्तः॥

Siddhanta Kaumudi

Up

अङ्गुल्यन्ताद्बहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्टमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेः - <{SK789}> इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अङ्गुलेर्दारुणि>> - अङ्गुलेर्दारुणि । बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात्तदन्तविधिरित्यभिप्रेत्याह — अङ्गुल्यन्तादिति । पञ्चाङ्गुलं दार्विति । षचियस्येति चे॑तीकारलोपः । ननु दारुणः कथमङ्गुलय इत्यत आह — अङ्गुलिसदृशावयवमिति । अङ्गुलिसदृशा अवयवा यस्येति विग्रहः । धान्येति कुसूलादिस्थितधान्याद्याकर्षकमिति यावत् । उच्यत इति ।लक्षणये॑ति शेषः । द्व्यङ्गुलेति ।प्रमाणे द्वयस॑जिति विहितस्य मात्रचोद्विगोर्नित्य॑मिति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हिद्व्यङ्गुलि॑रिति स्यादित्यत आह — तद्धितार्थे इति । षचि तु ङीष् स्यादिति भावः ।

Padamanjari

Up

अङ्गलिसदृशावयवमित्यादि। दारुणि समासार्थे मुख्याभिरङ्गुलीभिः सम्बन्धो नोपर्पद्यत इति भावः। ननु च द्वे अङ्गुली प्रमाणमस्य दारुण इत्यत्र सम्भवति? तत्राह - यस्य त्वलित्यादि। इह च बहुव्रीहेरयं प्रत्ययो विधीयते, त्वदुक्ते चोदाहरणे तद्धितार्थे तत्पुरुषः कर्तव्यः, तत्र च'तत्पुरुषस्याङ्गुलेः' इत्यचा भवितव्यम्। तस्माद्बहुव्रीहौ दारुणि वाच्ये गौण एवाङ्गुलिशब्द इति सुष्ठूअक्तमित्यर्थः ॥