तिङश्च

5-3-56 तिङः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे अतिशायने तमबिष्ठनौ

Sampurna sutra

Up

index: 5.3.56 sutra: तिङश्च


तिङः अतिशायने तमप्

Neelesh Sanskrit Brief

Up

index: 5.3.56 sutra: तिङश्च


'प्रकर्षेण' इत्यस्मिन् सन्दर्भे तिङन्तात् स्वार्थे 'तमप्' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.56 sutra: तिङश्च


तिङन्तात् च अतिशायने द्योत्ये तमप् प्रत्ययो भवति। ङ्याप्प्रातिपदिकात् 4.1.1 इत्यधिकारात् तिङो न प्राप्नोतीति इदं वचनम्। सर्वे इमे पचन्तीति, अयम् एषामतिशयेन पचति पचतितमाम्। जल्पतितमाम्। इष्ठन्नोदाह्रियते, गुणवचने तस्य नियतत्वात्।

Siddhanta Kaumudi

Up

index: 5.3.56 sutra: तिङश्च


तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.56 sutra: तिङश्च


तिङन्तादतिशये द्योत्ये तमप् स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 5.3.56 sutra: तिङश्च


अनेन सूत्रेण तिङन्तात् तद्धितप्रत्ययविधानम् क्रियते । यद्यपि तद्धितप्रत्ययाः केवलं प्रातिपदिकेभ्यः / सुबन्तेभ्यः विधीयन्ते, तथाप्यत्र निर्देशसामर्थ्यात् 'तमप्' प्रत्ययः तिङन्तात् विहितः अस्ति । यथा -

  1. 'एते सर्वे पचन्ति, परन्तु एषु सर्वेषु देवदत्तः प्रकर्षेण पचति' - अस्मिन् अर्थे 'पचति' इत्यस्मात् तिङन्तात् 'तमप्' प्रत्ययं कृत्वा 'पचतितम' इति कृत्वा अग्रे किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यनेन 'आमु' प्रत्ययं कृत्वा 'पचतितमाम्' इति रूपम् सिद्ध्यति । तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा भवति । यथा - 'देवदत्तः पचतितमामस्ति' इति प्रयोगः क्रियते ।

  2. एते सर्वे जल्पन्ति, परन्तु एतेषु सर्वेषु अपि यज्ञदत्तः प्रकर्षेण जल्पति' - अस्मिन् अर्थे 'जल्पति' इत्यस्मात् तिङन्तात् 'तमप्' प्रत्ययं कृत्वा तस्मात् अग्रे किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यनेन 'आमु' प्रत्ययं कृत्वा 'जल्पतितमाम्' इति रूपम् सिद्ध्यति । 'यज्ञदत्तः जल्पतितमाम् अस्ति' इति प्रयोगः अत्र क्रियते ।

ज्ञातव्यम् - अनेन सूत्रेण निर्मिताः शब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

स्मर्तव्यम् -

  1. अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्य एव करणीयः । सर्वेभ्यः तिङन्तेभ्यः अनेन सूत्रेण तमप्-प्रत्ययः न भवति ।

  2. अनेन सूत्रेण केवलम् 'तमप्' प्रत्ययः विधीयते, न हि 'इष्ठन्', यतः अजादी गुणवचनादेव 5.3.58 इत्यनेन इष्ठन्-प्रत्ययस्य प्रयोगः केवलम् गुणवाचकेभ्यः शब्देभ्यः एव नियम्यते ।

Balamanorama

Up

index: 5.3.56 sutra: तिङश्च


तिङश्च - ह्रस्वे । ह्रस्वत्वविशिष्ठे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः । अल्पत्वं — महत्त्वप्रतिद्वन्द्वि, ह्रस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः ।

Padamanjari

Up

index: 5.3.56 sutra: तिङश्च


पचतितमामिति।'किमेतिङ्व्यय' इत्यादिनाऽऽम्प्रत्ययः। गुणवचने तस्य नियतत्वादिति। अत एव सूत्रार्थकथनवेलायामपि तमप् प्रत्ययो भवतीत्युक्तम्। न चानुवृत्तिसामर्थ्यान्नियमस्य बाधः, तमब्विधानेऽप्यनुवृतेरुपपन्नत्वात् ॥