5-2-93 इन्द्रियम् इन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तम् इति वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.93 sutra: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
इन्द्रलिङ्गम्, इन्द्रदृष्टम् , इन्द्रसृष्टम्, इन्द्रजुष्टम् , इन्द्रदत्तम् इति वा 'इन्द्रियम्' (निपात्यते)
index: 5.2.93 sutra: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
इन्द्रलिङ्गम्, इन्द्रदृष्टम् , इन्द्रसृष्टम्, इन्द्रजुष्टम् , इन्द्रदत्तम् - एतेषु अर्थेषु 'इन्द्रियम्' इति शब्दः निपात्यते ।
index: 5.2.93 sutra: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
इन्द्रियम् इत्यन्तोदात्तं शब्दरूपं निपात्यते। रूढिरेषा चक्षुरादिनां करणानम्। तथा च व्युत्पत्तेरनियमं दर्शयति। इन्द्रशब्दात् षष्ठीसमर्थात् लिङ्गम् इत्येतस्मिन्नर्थे घच्प्रत्ययो भवति। इन्द्रस्य् लिङ्गम् इन्द्रियम्। इन्द्र आत्मा, स चक्षुरादिना करणेन अनुमीयते। नाकर्तृकं करणमस्ति। इन्द्रेण दृष्टम्। तृतीयासमर्थात् प्रत्ययः। आत्मना दृष्टम् इत्यर्थः। इन्द्रेण सृष्टम्, आत्मना सृष्टम्। तत्कृतेन शुभाशुभकर्मणोत्पन्नम् इति कृत्वा। इन्द्रेण जुष्टम्, आत्मना जुष्टं, सेवितम्। तद्द्वारेण विज्ञानोत्पादनात्। इन्द्रेण दत्तम्, आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय। इतिकरणः प्रकारार्थः। सति सम्भवे व्युत्पत्तिरन्यथाऽपि कर्तव्या, रूढेरनियमातिति। वाशब्दः प्रत्येकमभिसम्बध्यमानो विकल्पानां स्वातन्त्र्यम् दर्शयति।
index: 5.2.93 sutra: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥
index: 5.2.93 sutra: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
अनेन सूत्रेण 'इन्द्रिय' इत्यस्य शब्दस्य निपातनम् दीयते । अयम् शब्दः अनेन सूत्रेण भिन्नेषु अर्थेषु पाठितः अस्ति। क्रमेण पश्यामः -
इन्द्रलिङ्गम् - 'इन्द्र' इत्युक्ते आत्मा । 'लिङ्गम्' इत्युक्ते अनुमानम् ( निष्कर्षः / evidence / indicator) । इन्द्रस्य विषये अनुमानम् यैः अवयवैः भवति ते 'इन्द्रियाणि' नाम्ना ज्ञायन्ते । इत्युक्ते, यद्यपि शरीरस्थः आत्मा न दृश्यते / श्रूयते , तथापि 'सः शरीरे अस्ति' इति निष्कर्षः येषाम् साहाय्येन क्रियते, तानि अवयवानि 'इन्द्रियाणि' इति उच्यन्ते । The organs that can prove the presence of a soul inside the body - are called इन्द्रिय ।
इन्द्रदृष्टम् - 'इन्द्रेण दृष्टम्' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । आत्मा स्वयम् इन्द्रियाणाम् कार्यम् पश्यति (The soul is an observer of the deeds done by the sense organs इति अत्र चिन्तनम्), अतः आत्मना दृष्टानि तानि 'इन्द्रियाणि' इति आशयः ।
इन्द्रसृष्टम् - 'इन्द्रेण सृष्टम्' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । आत्मना यानि शुभानि अशुभानि च कर्माणि क्रियन्ते, तेषाम् फलस्वरूपम् येषाम् दोषादोषसहितम् निर्माणम् भवति, तानि इन्द्रियाणि । Good or bad deeds in one life result in certain configuration of sense organs in the next life - इति आशयः ।
इन्द्रजुष्टम् - 'इन्द्रेण जुष्टम् (= कर्मणि स्थापितम् / employed)' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । ये अवयवाः इन्द्रस्य आदेशेन / साहाय्येन एव चलन्ति (आत्मा नास्ति चेत् येषाम् कार्यम् न सम्भवति) तानि इन्द्रियाणि ।
इन्द्रदत्तम् - 'इन्द्रेण दत्तः' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । विषयभोगार्थम् यानि अवयवानि आत्मना शरीराय दीयन्ते, तानि इन्द्रियाणि । The sense organs given by the soul for enjoying various worldly matters इति आशयः ।
एतेषु सर्वेषु अर्थेषु 'इन्द्रिय' शब्दस्य प्रयोगः भवितुमर्हति । अस्य निर्माणम् एतादृशम् दीयते -
इन्द्रलिङ्गम् / इन्द्रदृष्टम् / इन्द्रसृष्टम् / इन्द्रजुष्टम् / इन्द्रदत्तम् तत्
= इन्द्र + घच् [घच्-प्रत्ययः तथा उत्तरपदस्य लोपः द्वावपि निपात्यते]
→ इन्द्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]
→ इन्द्र + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ इन्द्रिय
विशेषः -
अस्मिन् सूत्रे 'इति' इत्यस्य निर्देशः 'अन्यप्रकारैः व्युत्पत्तिः अपि सम्भवति' इति निर्देशयितुम् कृतः अस्ति । इत्युक्ते, कैश्चन अन्यैः प्रकारैः अपि 'इन्द्रिय' इत्यस्य शब्दस्य निर्माणम् भवितुमर्हति । यथा - इन्द्रेण दुर्जयम् (difficult to be won by the soul) इत्यस्मिन् अर्थे अपि 'इन्द्रिय' शब्दः प्रयुज्यते ।
अस्मिन् सूत्रे 'वा' इत्यस्य ग्रहणम् एतत् स्पष्टीकरोति यत् अस्मिन् सूत्रे ये भिन्नाः अर्थाः उच्यते, तेषु कोऽपि एकः एव अर्थः अस्ति चेदपि 'इन्द्रिय' इति शब्दः प्रयोक्तुम् शक्यते । इत्युक्ते, 'इन्द्रलिङ्गम् इन्द्रियम्, इन्द्रदृष्टम् वा इन्द्रियम्, इन्द्रसृष्टम् वा इन्द्रियम्, इन्द्रजुष्टम् वा इन्द्रियम् , इन्द्रदत्तम् वा च इन्द्रियम्' इति अत्र आशयः ।
index: 5.2.93 sutra: इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा
अन्तोदात इति।'क्षेत्रियच्' इत्येतत्साहचर्यात्। रूढिरेवेति। किमत्र प्रमाणम्? इत्याह तथा चेति। न हि यौगिकेषु व्युत्पतेरनियमो भवति। इन्द्र आत्मेति। कार्यकारणसङ्गातं प्रतीश्वरत्वात्। विज्ञियते च तमिन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेणेति। करणेनेति। हेतुगर्भविशेषणम्। यथा पुनरयं हेतुस्तथा दर्शयति - नाकर्तृकमिति। इतिकरणो हेतौ। न हि वाश्यादिकरणमनधिष्ठितं कर्त्रा प्रवर्तते। इन्द्रेण दृष्टमिति। दृष्टमुज्ञातम्, तथा च कार्यकारणसङ्घातं प्रस्तुत्य भवति वादः -'स एतमेव पुरुषं ब्रह्मततमपश्यत्' , ठिदमदर्शम्ऽ इत्यादि। कथं पुनश्चक्षुरादिकमात्मना सृष्टम् ? इत्याह - तत्कृतेनेति। शुभं कर्मौविहितम्, प्रतिषिद्धमुअशुभम् - तदुभयं मिलितं कारणानामुत्पादकम्; इष्टानिष्टानां रूपादीनां चक्षुरादिभिरुपलम्भात्। यथायथामिति। यो यस्य विषयः - चक्षुषो रूपम्, घ्राणस्य गन्ध इत्यादि, तद्ग्रहणायेत्यर्थः। अन्यथापि कर्तव्येति। तद्यथा - इन्द्रेण दुर्जयमिति। प्रत्योकमभिसम्बध्यमान इति। हेतुगर्भविशेषणम्; यस्मात्प्रत्येकमभिसम्बध्यते तस्मादित्यर्थः ॥